छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः स तत्र पर्येति जक्षत्क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनꣳ स्मरन्निदꣳ शरीरꣳ स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ॥ ३ ॥
ननु कथमेकः सन् नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा कामांश्च ब्राह्मलौकिकान्पश्यन्रमते इति च विरुद्धम् , यथा एको यस्मिन्नेव क्षणे पश्यति स तस्मिन्नेव क्षणे न पश्यति च इति । नैष दोषः, श्रुत्यन्तरे परिहृतत्वात् । द्रष्टुर्दृष्टेरविपरिलोपात्पश्यन्नेव भवति ; द्रष्टुरन्यत्वेन कामानामभावान्न पश्यति च इति । यद्यपि सुषुप्ते तदुक्तम् , मुक्तस्यापि सर्वैकत्वात्समानो द्वितीयाभावः । ‘केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इति च उक्तमेव । अशरीरस्वरूपोऽपहतपाप्मादिलक्षणः सन् कथमेष पुरुषोऽक्षिणि दृश्यत इत्युक्तः प्रजापतिना ? तत्र यथा असावक्षिणि साक्षाद्दृश्यते तद्वक्तव्यमितीदमारभ्यते । तत्र को हेतुरक्षिणि दर्शने इति, आह — स दृष्टान्तः यथा प्रयोग्यः, प्रयोग्यपरो वा स-शब्दः, प्रयुज्यत इति प्रयोगः, अश्वो बलीवर्दो वा यथा लोके आचरत्यनेनेत्याचरणः रथः अनो वा तस्मिन्नाचरणे युक्तः तदाकर्षणाय, एवमस्मिञ्छरीरे रथस्थानीये प्राणः पञ्चवृत्तिरिन्द्रियमनोबुद्धिसंयुक्तः प्रज्ञात्मा विज्ञानक्रियाशक्तिद्वयसंमूर्छितात्मा युक्तः स्वकर्मफलोपभोगनिमित्तं नियुक्तः, ‘कस्मिन्न्वहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति’ (प्र. उ. ६ । ३) ईश्वरेण राज्ञेव सर्वाधिकारी दर्शनश्रवणचेष्टाव्यापारेऽधिकृतः । तस्यैव तु मात्रा एकदेशश्चक्षुरिन्द्रियं रूपोपलब्धिद्वारभूतम् ॥

मनसैतान्कामानित्यादिवाक्यं स्तुत्यर्थमपि प्रधानवाक्यविरुद्धत्वात्त्याज्यमिति शङ्कते –

नन्विति ।

वाक्ययोर्मिथो विरोधे दृष्टान्तमाह –

यथेति ।

अथ यथोक्तं वाक्यं सुषुप्तमधिकृत्य प्रवृत्तं कथं मुक्तविषयतयोदाहृतमत आह –

यद्यपीति ।

सुप्तस्य मोक्षदृष्टान्तत्वात्तद्गतस्य च दार्ष्टान्तिकेऽनुगमाद्यदुक्तं सुषुप्ते तत्सम्बन्धो मुक्ते सिद्ध्यतीत्यर्थः ।

किं च मुक्तमेवाधिकृत्य “यत्र त्वस्य सर्वमात्मैवाभूत्” (बृ.उ. ४ । ५ । १५) इत्यादि तत्रैवोक्तमित्याह –

केनेति ।

फलार्थवादस्याक्षिवाक्यस्य च मिथो विरोधं शङ्कते –

अशरीरेति ।

दृश्यत इत्यस्य पदस्य चाक्षुषदर्शने रूढत्वादशरीरस्य तदयोग्यत्वादशरीरात्मोक्तिर्दृश्यत इति श्रुतिविरुद्धेत्यर्थः ।

आत्मत्वामृतत्वादिब्रह्मविषयानेकश्रुतिलिङ्गविरोधाद्दृश्यत इत्येकस्याःश्रुतेर्ज्ञानमात्रविषयनिरोधोऽस्तीत्यभिप्रेत्यानन्तरवाक्यमुत्थापयति –

तत्रेति ।

चाक्षुषदर्शनाविषयत्वे सति चक्षुषो दर्शने को हेतुरित्यपेक्षायां लिङ्गहेतुकं तावद्दर्शनं सम्भवतीति मत्वा दृष्टान्तमाह श्रुतिः ।

स दृष्टान्तो यथा भवति तथोच्यत इत्याह –

तत्रेति ।

तमेव दृष्टान्तमनूद्य व्याचष्टे –

यथेत्यादिना ।

अध्याहारराहित्यसिद्ध्यर्थं पक्षान्तरमाह –

प्रयोग्येति ।

एवमित्यनेन द्वितीयो यथाशब्दः सम्बध्यते । शरीरस्य रथस्थानीयत्वं शरीरं रथमेव त्विति श्रुत्यन्तरान्मन्तव्यम् । अस्मिन्युक्तः स रथस्थानीय ईश्वरेण स्वकर्मफलोपभोगनिमित्तं प्राणो रथित्वेन नियुक्त इति सम्बन्धः ।

घ्राणप्राणं व्यावर्तयति –

पञ्चवृत्तिरिति ।

आत्मानं रथिनं विद्धीतिश्रुतिविरुद्धं प्राणस्य रथित्वमित्याशङ्क्य तस्योपाधिर्यस्तदभेदाङ्गीकारात्मैवमित्याह –

प्रज्ञात्मेति ।

तस्याध्यात्मसन्तानशरीरद्वयविशिष्टत्वेन स्फुरितं स्वरूपं दर्शयति –

विज्ञानेति ।

ईश्वरस्य यथोक्तप्राणोपाधिद्वारा भोक्तृत्वादिसंसारित्वमित्यत्र श्रुत्यन्तरं प्रमाणयति –

कस्मिन्निति ।

प्रतिष्ठास्यामीतीक्षित्वा स प्राणमसृजतेत्यादिश्रुतिरिति शेषः ।

तथा च यथा राज्ञा सर्वाधिकारित्वेन सेनाध्यक्षः सन्धिविग्रहादौ नियुज्यते तथेश्वरेण सर्वचेष्टान्तराधिकृतः स्वकीयदर्शनादिव्यापारनिमित्तं नियुक्तो भवतीत्याह –

राज्ञेति ।

प्राणः स्वविलक्षणेन चेतनेन नियुज्यते प्रयोज्यत्वादश्वादिवदित्यनुमानाद्देहसंहतात्प्राणादतिरिक्तोऽसंहतश्चेतनः सिद्ध्यतीति समुदायार्थः ।

चक्षुरादिचेष्टा चेतननिमित्ता चेष्टात्वाद्रथादिचेष्टावदित्यनुमानान्तरं सूचयति –

तस्यैवेति ।

प्रकृतप्राणविषयस्तच्छब्दः । मात्रेत्येतस्य व्याख्यानमेकदेश इति । प्राणसंवादे चक्षुरादीनां प्राणपारतन्त्र्यप्रतीतेस्तदेकदेशत्वं तेषामिति द्रष्टव्यम् ॥३॥