शरीराद्व्यतिरिक्तमात्मानं सम्भाव्य तस्यौपाधिकं द्रष्टृत्वमाचष्टे –
अथेति ।
अतिरिक्तात्मसम्भावनानन्तर्यमथशब्दार्थः । यत्र तत्रेतिसप्तमीभ्यां संसारदशोच्यते । अनुगतं चक्षुरिति सम्बन्धः ।
दर्शनाय चक्षुरित्यस्यार्थं समर्थयते –
यस्येति ।
यस्य परस्य द्रष्टुरर्थे करणं चक्षुरिष्टं स परश्चक्षुषि लिङ्गेन दृश्यत इति सम्बन्धः ।
पारार्थ्ये चक्षुषो हेतुमाह –
देहादिभिरिति ।
यत्संहतं तत्स्वविलक्षणशेषं दृष्टं यथा शयनासनादि तथा तदपि चक्षुर्देहादिभिः संहतत्वाद्यस्य विलक्षणस्य शेषभूतं सोऽत्र दर्शनेन लिङ्गेन दृश्यते । विमतं साश्रयं धर्मत्वाद्रूपादिवदित्यनुमानादित्यर्थः ।
दृश्यत इत्यस्याविरुद्धार्थमुक्त्वाऽक्षिणीत्यस्य विवक्षितमर्थमाह –
अक्षिणिति ।
यथाऽक्षिद्वारा रूपोपलब्धा परस्तथा तत्तदिन्द्रियद्वारा तत्तद्विषयोपलब्धा पर एवेति कृत्वा युक्तमिदमुपलक्षणमिति साधयति –
सर्वविषयेति ।
सर्वेन्द्रियैरुपलब्धृत्वमविशिष्टं चेत्कथं तर्हि सर्वास्वपि श्रुतिषु चक्षुष्येवात्मोपदिश्यते तत्राऽऽह –
स्फुटेति ।
चक्षुषः स्फुटोपलब्धौ हेतुत्वे श्रुतिं सम्वादयति –
अहमिति ।
यत्रादर्शमिति चाक्षुषः प्रत्ययस्तद्वस्तु सत्यं स्फुटोपलम्भादिति द्वयोर्विवदमानयोर्दृष्टमित्यर्थः ।
य एषोऽक्षिणीत्यत्र सर्वेन्द्रियद्वारोपलब्धा विवक्षित इत्युक्तं व्यक्तीकरोति –
अथापीति ।
चक्षुषि स्फुटोपलम्भेऽपीति यावत् । योऽस्मिन्देहे येन केनापीन्द्रियेण यं कंचिद्विषयं वेद स आत्मेति सम्बन्धः ।
उक्तमेवार्थमाकाङ्क्षाद्वारा स्फोरयति –
कथमित्यादिना ।
जिघ्राणीति यो वेदेत्युक्तमेव संक्षिपति –
अस्येति ॥४॥