छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माभिव्याहाराय वागथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् ॥ ४ ॥
अथ यत्र कृष्णतारोपलक्षितम् आकाशं देहच्छिद्रम् अनुविषण्णम् अनुषक्तम् अनुगतम् , तत्र स प्रकृतः अशरीर आत्मा चाक्षुषः चक्षुषि भव इति चाक्षुषः तस्य दर्शनाय रूपोपलब्धये चक्षुः करणम् ; यस्य तत् देहादिभिः संहतत्वात् परस्य द्रष्टुरर्थे, सोऽत्र चक्षुषि दर्शनेन लिङ्गेन दृश्यते परः अशरीरोऽसंहतः । ‘अक्षिणि दृश्यते’ इति प्रजापतिनोक्तं सर्वेन्द्रियद्वारोपलक्षणार्थम् ; सर्वविषयोपलब्धा हि स एवेति । स्फुटोपलब्धिहेतुत्वात्तु ‘अक्षिणि’ इति विशेषवचनं सर्वश्रुतिषु । ‘अहमदर्शमिति तत्सत्यं भवति’ इति च श्रुतेः । अथापि योऽस्मिन्देहे वेद ; कथम् ? इदं सुगन्धि दुर्गन्धि वा जिघ्राणीति अस्य गन्धं विजानीयामिति, स आत्मा, तस्य गन्धाय गन्धविज्ञानाय घ्राणम् । अथ यो वेद इदं वचनम् अभिव्याहराणीति वदिष्यामीति, स आत्मा, अभिव्याहरणक्रियासिद्धये करणं वागिन्द्रियम् । अथ यो वेद — इदं शृणवानीति, स आत्मा, श्रवणाय श्रोत्रम् ॥

शरीराद्व्यतिरिक्तमात्मानं सम्भाव्य तस्यौपाधिकं द्रष्टृत्वमाचष्टे –

अथेति ।

अतिरिक्तात्मसम्भावनानन्तर्यमथशब्दार्थः । यत्र तत्रेतिसप्तमीभ्यां संसारदशोच्यते । अनुगतं चक्षुरिति सम्बन्धः ।

दर्शनाय चक्षुरित्यस्यार्थं समर्थयते –

यस्येति ।

यस्य परस्य द्रष्टुरर्थे करणं चक्षुरिष्टं स परश्चक्षुषि लिङ्गेन दृश्यत इति सम्बन्धः ।

पारार्थ्ये चक्षुषो हेतुमाह –

देहादिभिरिति ।

यत्संहतं तत्स्वविलक्षणशेषं दृष्टं यथा शयनासनादि तथा तदपि चक्षुर्देहादिभिः संहतत्वाद्यस्य विलक्षणस्य शेषभूतं सोऽत्र दर्शनेन लिङ्गेन दृश्यते । विमतं साश्रयं धर्मत्वाद्रूपादिवदित्यनुमानादित्यर्थः ।

दृश्यत इत्यस्याविरुद्धार्थमुक्त्वाऽक्षिणीत्यस्य विवक्षितमर्थमाह –

अक्षिणिति ।

यथाऽक्षिद्वारा रूपोपलब्धा परस्तथा तत्तदिन्द्रियद्वारा तत्तद्विषयोपलब्धा पर एवेति कृत्वा युक्तमिदमुपलक्षणमिति साधयति –

सर्वविषयेति ।

सर्वेन्द्रियैरुपलब्धृत्वमविशिष्टं चेत्कथं तर्हि सर्वास्वपि श्रुतिषु चक्षुष्येवात्मोपदिश्यते तत्राऽऽह –

स्फुटेति ।

चक्षुषः स्फुटोपलब्धौ हेतुत्वे श्रुतिं सम्वादयति –

अहमिति ।

यत्रादर्शमिति चाक्षुषः प्रत्ययस्तद्वस्तु सत्यं स्फुटोपलम्भादिति द्वयोर्विवदमानयोर्दृष्टमित्यर्थः ।

य एषोऽक्षिणीत्यत्र सर्वेन्द्रियद्वारोपलब्धा विवक्षित इत्युक्तं व्यक्तीकरोति –

अथापीति ।

चक्षुषि स्फुटोपलम्भेऽपीति यावत् । योऽस्मिन्देहे येन केनापीन्द्रियेण यं कंचिद्विषयं वेद स आत्मेति सम्बन्धः ।

उक्तमेवार्थमाकाङ्क्षाद्वारा स्फोरयति –

कथमित्यादिना ।

जिघ्राणीति यो वेदेत्युक्तमेव संक्षिपति –

अस्येति ॥४॥