छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य दैवं चक्षुः स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते य एते ब्रह्मलोके ॥ ५ ॥
अथ यो वेद — इदं मन्वानीति मननव्यापारमिन्द्रियासंस्पृष्टं केवलं मन्वानीति वेद, स आत्मा, मननाय मनः । यो वेद स आत्मेत्येवं सर्वत्र प्रयोगात् वेदनमस्य स्वरूपमित्यवगम्यते — यथा यः पुरस्तात्प्रकाशयति स आदित्यः, यो दक्षिणतः यः पश्चात् उत्तरतो य ऊर्ध्वं प्रकाशयति स आदित्यः — इत्युक्ते प्रकाशस्वरूपः स इति गम्यते । दर्शनादिक्रियानिर्वृत्त्यर्थानि तु चक्षुरादिकरणानि । इदं च अस्य आत्मनः सामर्थ्यादवगम्यते — आत्मनः सत्तामात्र एव ज्ञानकर्तृत्वम् , न तु व्यापृततया — यथा सवितुः सत्तामात्र एव प्रकाशनकर्तृत्वम् , न तु व्यापृततयेति — तद्वत् । मनोऽस्य आत्मनो दैवमप्राकृतम् इतरेन्द्रियैरसाधारणं चक्षुः चष्टे पश्यत्यनेनेति चक्षुः । वर्तमानकालविषयाणि च इन्द्रियाणि अतो अदैवानि तानि । मनस्तु त्रिकालविषयोपलब्धिकरणं मृदितदोषं च सूक्ष्मव्यवहितादिसर्वोपलब्धिकरणं च इति दैवं चक्षुरुच्यते । स वै मुक्तः स्वरूपापन्नः अविद्याकृतदेहेन्द्रियमनोवियुक्तः सर्वात्मभावमापन्नः सन् एष व्योमवद्विशुद्धः सर्वेश्वरो मनउपाधिः सन् एतेनैवेश्वरेण मनसा एतान्कामान् सवितृप्रकाशवत् नित्यप्रततेन दर्शनेन पश्यन् रमते । कान्कामानिति विशिनष्टि — य एते ब्रह्मणि लोके हिरण्यनिधिवत् बाह्यविषयासङ्गानृतेनापिहिताः सङ्कल्पमात्रलभ्याः तानित्यर्थः ॥

इन्द्रियैर्घ्राणादिभिरसंस्पृष्टं तत्तद्द्वारेणानिष्पन्नमिति यावत् । केवलं मनोमात्रजनितमित्येतन्मन्वानि संपादयानीत्यर्थः । यो वेदेत्यत्र प्रत्ययार्थभूतं कर्तृत्वं सापेक्षत्वान्मिथ्या प्रकृत्यर्थं रूपं तु संविन्मात्रमनपेक्षतया सत्यमात्मस्वरूपमित्याह –

यो वेदेति ।

आत्मा संवेदनस्वभावश्चेत्तत्संसर्गादेव विषयसिद्धिसम्भवाच्चक्षुरादिवैयर्थ्यं स्यादित्याशङ्क्याऽऽह –

दर्शनादीति ।

अन्तःकरणवृत्तिर्दर्शनादिक्रिया । सा चाऽऽत्मनः संविदेकरसस्यासङ्गोदासीनस्य विषयसंसर्गभ्रमहेतुस्तन्निष्पत्त्यर्थानि चक्षुरादीनि भवन्ति सार्थकानीत्यर्थः ।

तेषामुक्तरीत्या सार्थकत्वे गमकमाह –

इदं चेति ।

करणानामुक्तं सार्थकत्वं प्रकृतस्य संविन्मात्रस्यासङ्गत्वादेव स्वतो विषयसम्बन्धानुपपत्त्या तत्सम्बन्धभ्रान्तिकारणान्तःकरणवृत्तिविशेषापेक्षया निर्धारितमित्यर्थः ।

आत्मनः संविन्मात्रस्वभावत्वे कथं कर्तृत्वव्यपदेश इत्याशङ्क्याऽऽह –

आत्मन इति ।

य एषोऽक्षिणीत्यादि वाक्यं प्रपञ्चितं सम्प्रति स तत्रेत्यादि फलवाक्यं प्रपञ्चयितुमिन्द्रियान्तरेभ्यो मनसो वैलक्षण्यं दर्शयति –

मनोऽप्त्येति ।

तस्य चक्षुष्ट्वेऽपि कुतो दैवत्वमित्याशङ्क्याऽऽह –

वर्तमानेति ।

आगन्तुकदोषराहित्यं मृदितदोषत्वम् । सर्वेश्वरो व्यज्यते यस्मिन्विशुद्धे मनसि तन्मनः सर्वेश्वरं तदुपाधिरस्येति तथोक्तः । ईश्वरेण तदभिव्यञ्जकेनेत्येतत् । अविद्यादिप्रतिबन्धकस्याभावान्मनसा नित्यं प्रततं दर्शनं नित्याभिव्यक्तस्वरूपं चैतन्यं तेन पश्यन्निति योजना ॥५॥