तं वा एतमित्यादि व्याचष्टे –
यस्मादिति ।
पदार्थमुक्त्वा वाक्यार्थमाह –
यदर्थं हीति ।
स सर्वांश्चेत्यादिवाक्यमाशङ्कोत्तरत्वेनोत्थाप्य व्याचष्टे –
तद्युक्तमित्यादिना ।
यथोक्तं फलं तच्छब्दार्थः । प्रकरणं निर्विशेषब्रह्मात्मैकत्वज्ञानविषयम् ॥६॥