श्रीमद्भगवद्गीताभाष्यम्
प्रथमोऽध्यायः
आनन्दगिरिटीका (गीताभाष्य)
 

नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम्
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा मेदिनी

नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम्
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा मेदिनी

आनन्दगिरिटीका

दृष्टिं मयि विशिष्टार्थां कृपापीयूषवर्षिणीम् ।
हेरम्ब देहि प्रत्यूहक्ष्वेडव्यूहनिवारिणीम् ॥ १ ॥ यद्वक्त्रपङ्केरुहसम्प्रसूतं निष्ठामृतं विश्वविभागनिष्ठम् ।
साध्येतराभ्यां परिनिष्टितान्तं तं वासुदेवं सततं नतोऽस्मि ॥ २ ॥ प्रत्यञ्चमच्युतं नत्वा गुरूनपि गरीयसः ।
क्रियते शिष्यशिक्षायै गीताभाष्यविवेचनम् ॥ ३ ॥

कर्मनिष्ठाज्ञाननिष्ठेत्युपायोपेयभूतं निष्ठाद्वयमधिकृत्य प्रवृत्त गीताशास्त्रं व्याचिख्यासुर्भगवान् भाष्यकारो विघ्नोपप्लवोपशमनादिप्रयोजनप्रसिद्धये प्रामाणिकव्यवहारप्रमाणकमिष्टदेवतातत्त्वानुस्मरणं मङ्गलाचरणं सम्पादयन् अनवशेषेणेतिहासपुराणयोर्व्याचिख्यासितगीताशास्त्रेणैकवाक्यतामभिप्रेत्य पौराणिकश्लोकमेवान्तर्यामिविषयमुदाहरति –

नारायण इति ।

‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ ’ [मनुः १.१०] इति स्मृतिसिद्धः स्थूलदृशां नारायणशब्दार्थः । सूक्ष्मदर्शिनः पुनराचक्षते – नरशब्देन चराचरात्मकं शरीरजातमुच्यते । तत्र नित्यसन्निहिताश्चिदाभासा जीवा नारा इति निरुच्यन्ते । तेषामयनमाश्रयो नियामकोऽन्तर्यामी नारायण इति । यमधिकृत्यान्तर्यामिब्राह्मणं श्रीनारायणाख्यं मन्त्राम्नायं चाधीयते । तदनेन शास्त्रप्रतिपाद्यं विशिष्टं तत्त्वमादिष्टं भवति ।

ननु परस्याऽऽत्मनो मायासम्बन्धादन्तर्यामित्वं शास्त्रप्रतिपाद्यत्वं च वक्तव्यम् । अन्यथा कूटस्थासङ्गाविषयाद्वितीयस्य तदयोगात् । तथा च शुद्धतासिद्धौ कथं यथोक्ता परदेवता शास्त्रादावनुस्मर्यते ? शुद्धस्य हि तत्त्वस्यानुस्मरणमभीष्टफलवदभीष्टम् । तत्राह –

परोऽव्यक्तादिति ।

अव्यक्तम् अव्याकृतं मायेत्यनर्थान्तरम् । तस्मात् परो – व्यतिरिक्त स्तेनासंस्पृष्टोऽयं परः, ‘अक्षरात् परतः परः’ (मु. उ. २-१-२) इति श्रुतेर्गृहीतः । तत्त्वतो मायासम्बन्धाभावेऽपि कल्पनया तदीयसङ्गतिमङ्गीकृत्यान्तर्यामित्वादिकमुन्नेयम् ।

यस्मादीश्वरस्य व्यतिरेको विवक्षितस्तस्मिन्नव्यक्ते साक्षिसिद्धेऽपि, कार्यलिङ्गकमनुमानमुपन्यस्यति –

अण्डमिति ।

अपञ्चीकृतपञ्चमहाभूतात्मकं हैरण्यगर्भं तत्त्वमण्डमित्यभिलप्यते । तदव्यक्तात् पूर्वोक्तादुत्पद्यते । प्रसिद्धा हि श्रुतिस्मृतिवादेषु हिरण्यगर्भस्य मूलकारणादुत्पत्तिः । तथा च कार्यलिङ्गादव्यक्तादभिव्यक्तिरित्यर्थः ।

हिरण्यगर्भे श्रुतिस्मृतिसमधिगतेऽपि कार्यलिङ्गकमनुमानमस्तीति मन्वानो विराडुत्पत्तिमुपदर्शयति –

अण्डस्येति ।

उक्तस्याण्डस्य हिरण्यगर्भाभिधानीयस्यान्तरिमे भूरादयो लोका विराडात्मका वर्तन्ते । कार्यं हि कारणस्यान्तर्भवति । तेन हिरण्यगर्भान्तर्भूता भूरादयो लोका विराडात्मानस्तेन सृष्टा इति तल्लिङ्गाद्धिरण्यगर्भसिद्धिरित्यर्थः ।

लोकानेव पञ्चीकृतपञ्चमहाभूतात्मकविराडात्मत्वेन व्युत्पादयति –

सप्तद्वीपेति ।

‘सा पृथिव्यभवत्’ [बृ.उ. १.२.२] इति श्रुतौ विराजो जन्म सङ्कीर्तितमित्यङ्गीकारादशेषद्वीपोपेता पृथिवीत्यनेन सर्वलोकात्मको विराडेवोच्यते । चशब्देन विराजो हि हिरण्यगर्भे पूर्वोक्ताण्डात्मन्यन्तर्भावात् , ततः सम्भवोऽनुकृष्यते । परमात्मा हि स्वाज्ञानद्वारा जगदशेषमुत्पाद्य स्वात्मन्येवान्तर्भाव्याखण्डैकरससच्चिदानन्दात्मना स्वे महिम्नि तिष्ठतीत्यर्थः । अत्र च नारायणशब्देनाभिधेयमुक्तम् । नरा एव नारा जीवाः, त्वम्पदवाच्याः, तेषामयनमधिष्ठानं तत्पदवाच्यं परं ब्रह्म । तथा च कल्पितस्याधिष्ठानातिरिक्तस्वरूपाभावाद्वाच्यस्य कल्पितत्वेऽपि लक्ष्यस्य ब्रह्ममात्रत्वाद्ब्रह्मात्मैक्यं विषयोऽत्र सूच्यते । तेनार्थाद्विषयविषयिभावः सम्बन्धोऽपि ध्वनितः । परोऽव्यक्तादित्यनेन मायासंस्पर्शाभावोक्त्या सर्वानर्थनिवृत्त्या परमानन्दाविर्भावलक्षणो मोक्षो विवक्षितः । तेन च तत्कामस्याधिकारो द्योतितः । परिशिष्टेन तु, शब्देन वस्तुनो वास्तवमद्वितीयत्वमावेदितम् । तेन च वस्तुद्वारा परमविषयवं तज्ज्ञाननिष्ठायास्तदुपायभूतकर्मनिष्ठायाश्चावान्तरविषयत्वमित्यर्थादुक्तमित्यवधेयम् ॥ १ ॥