श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
स भगवान् सृष्ट्वेदं जगत् , तस्य च स्थितिं चिकीर्षुः, मरीच्यादीनग्रे सृष्ट्वा प्रजापतीन् , प्रवृत्तिलक्षणं धर्मं ग्राहयामास वेदोक्तम् । ततोऽन्यांश्च सनकसनन्दनादीनुत्पाद्य, निवृत्तिलक्षणं धर्मं ज्ञानवैराग्यलक्षणं ग्राहयामास । द्विविधो हि वेदोक्तो धर्मः, प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च, जगतः स्थितिकारणम् । प्राणिनां साक्षादभ्युदयनिःश्रेयसहेतुर्यः स धर्मो ब्राह्मणाद्यैर्वर्णिभिराश्रमिभिश्च श्रेयोर्थिभिः अनुष्ठीयमानो दीर्घेण कालेन । अनुष्ठातॄणां कामोद्भवात् हीयमानविवेकविज्ञानहेतुकेन अधर्मेण अभिभूयमाने धर्मे, प्रवर्धमाने च अधर्मे, जगतः स्थितिं परिपिपालयिषुः स आदिकर्ता नारायणाख्यो विष्णुः भौमस्य ब्रह्मणो ब्राह्मणत्वस्य रक्षणार्थं देवक्यां वसुदेवादंशेन कृष्णः किल सम्बभूव । ब्राह्मणत्वस्य हि रक्षणे रक्षितः स्याद्वैदिको धर्मः, तदधीनत्वाद्वर्णाश्रमभेदानाम् ॥

ननु नैवं साध्यसाधनभूतं निष्ठाद्वयमत्र भगवता प्रतिपाद्यते, भूमिप्रार्थितेन ब्रह्मणाऽभ्यर्थितस्य भगवतो भूमिभारापहारार्थं वसुदेवेन देवक्यामाविर्भूतस्य तादर्थ्येन मध्यमं पृथासुतं प्रथितमहिमानं प्रेरयितुं धर्मयोरिहानूद्यमानत्वात् , अतो नास्य शास्त्रस्य निष्ठाद्वयं परापरविषयभावमनुभवितुमलमिति । तन्न । भगवतो धर्मसंस्थापनस्वाभाव्यध्रौव्याद् धर्मद्वयस्थापनार्थमेव प्रादुर्भावाभ्युपगमाद्भूभारपरिहारस्य चाऽऽर्थिकत्वात् , अर्जुनं निमित्तीकृत्याधिकारिणं स्वधर्मप्रवर्तनद्वारा ज्ञाननिष्ठायामवतारयितुं गीताशास्त्रस्य प्रणीतत्वात् , उचितमस्य निष्ठाद्वयविषयत्वमिति परिहरति –

स भगवान् इत्यादिना धर्मद्वयमर्जुनायोपदिदेश इत्यन्तेन भाष्येण ।

तत्र, नेदं गीताशास्त्रं व्याख्यातुमुचितमाप्तप्रणीतत्वानिर्धारणात् तथाविधशास्त्रान्तरवदित्याशङ्क्य, मङ्गलाचरणस्योद्देश्यं दर्शयन् आदौ शास्त्रप्रणेतुराप्तत्वनिर्धारणार्थं सर्वज्ञत्वादिप्रतिज्ञापूर्वकं सर्वजगज्जनयितृत्वमाह –

स भगवानिति ।

प्रकृतो नारायणाख्यो देवः सर्वज्ञः सर्वेश्वरः समस्तमपि प्रपञ्चमुत्पाद्य व्यवस्थितः । न च तस्यानाप्तत्वम् , ईश्वरानुगृहीतानामाप्तत्वप्रसिद्ध्या तस्य परमाप्तत्वप्रसिद्धेरित्यर्थः ।

ननु भगवता सृष्टमपि चातुर्वर्ण्यादिविशिष्टं हिरण्यगर्भादिलक्षणं जगत् न व्यवस्थितिमास्थातुं शक्यते व्यवस्थापकाभावात् , न च परस्यैवेश्वरस्य व्यवस्थापकत्वं वैषम्यादिप्रसङ्गात् , तत्राह –

तस्य चेति ।

सृष्टस्य जगतो मर्यादाविरहितत्वे शङ्किते तदीयां व्यवस्थां कर्तुमिच्छन् व्यवस्थापकमालोच्य क्षत्रस्यापि क्षत्रत्वेन प्रसिद्धं धर्मं तथाविधमधिगम्य सृष्टवानित्यर्थः ।

सृष्टस्य धर्मस्य साध्यस्वभावतया साधयितारमन्तरेणासम्भावत् तस्यैव तदनुष्ठातृत्वानभ्युपगमात् प्राणिप्रभेदानामधर्मप्रायाणां तदयोगात् कुतस्तदीया सृष्टिरित्याशङ्क्याह –

मरीच्यादीनिति ।

तेषां भगवता सृष्टानां प्रजासृष्टिहेतूनां यागदानादिप्रवृत्तिसाध्यं धर्ममनुष्ठातुमधिकृतानां स्वकीयत्वेन तदुपादानमुपपन्नमित्यर्थः ।

चैत्यवन्दनादिभ्यो विशेषार्थं धर्मं विशिनष्टि –

वेदोक्तमिति ।

ननु नैतावता जगदशेषमपि व्यवस्थापयितुं शक्यते, प्रवृत्तिमार्गस्य पूर्वोक्तधर्मं प्रति नियतत्वेऽपि निवृत्तिमार्गस्य तेन व्यवस्थापनायोग्यत्वात् , तत्राह –

ततोऽन्यांश्चेति ।

निवृत्तिरूपस्य धर्मस्य शमदमाद्यात्मनो गमकमाह –

ज्ञानेति ।

विवेकवैराग्यातिशये शमाद्यतिशयो गम्यते । ततो विवेकादि तस्य गमकमित्यर्थः ।

धर्मे बहुविदां विवाददर्शनाज्जगतः स्थेम्ने कारणीभूतधर्मान्तरमपि स्रष्टव्यमस्तीत्याशङ्क्याह –

द्विविधो हीति ।

अतिप्रसङ्गाप्रसङ्गव्यावृत्तये प्रकृतं धर्मं लक्षयति –

प्राणिनामिति ।

प्रवृत्तिलक्षणो धर्मोऽभ्युदयार्थिनां साक्षादभ्युदयहेतुः, निश्रेयसार्थिनां परम्परया निःश्रेयसहेतुः । निवृत्तिलक्षणस्तु धर्मः साक्षादेव निःश्रेयसहेतुरिति विभागः । ज्ञानस्यैव निःश्रेयसहेतुत्वेऽपि शमादीनां ज्ञानद्वारा मोक्षहेतुत्वं, ज्ञानातिरिक्तव्यवधानाभावाच्च साक्षादित्युक्तम् ।

यद्येवं धर्मो लक्ष्यते, तर्हि वर्णित्वमाश्रमित्वं चोपेक्ष्य सर्वैरेव पुरुषार्थार्थिभिर्द्वावपि धर्मौ यथायोग्यमनुष्ठेयावित्यानुष्ठातृनियमासिद्धिरित्याशङ्क्याह –

ब्राह्मणाद्यैरिति ।

अर्थित्वाविशेषेऽपि श्रुतिस्मृतिपर्यालोचनयाऽनुष्ठानान्नियमसिद्धिरित्यर्थः ।

नित्यनैमित्तिकेषु यावज्जीवमनुष्ठानं काम्येषु करणांशे रागाधीना प्रवृत्तिः इतिकर्तव्यतांशे वैधीति विभागेऽपि कदाचिदेवानुष्ठानमिति विभागमभिप्रेत्याह –

दीर्घेणेति ।

अथ यथोक्तधर्मवशादेव जगतो विवक्षितस्थितिसिद्धेर्भगवतो नारायणस्यादिकर्तुरनेकानर्थकलुषितशरीरपरिग्रहासम्भवादन्यस्यैव कस्यचिदनाप्तस्य वैषम्यनैर्घृण्यवतो निग्रहपरिग्रहद्वारेण गीताशास्त्रप्रणयनमिति कुतोऽस्य आप्तप्रणीतत्वम् , तत्राह –

अनुष्ठातॄणामिति ।

अथवा यथोक्तशङ्कायां दीर्घेणेत्यारभ्योत्तरम् । महता कालेन कृतत्रेतात्यये द्वापरावसाने साधकानां कामक्रोधादिपूर्वकादविवेकादधर्मबाहुल्याद्धर्माभिभवादधर्माभिवृद्धेश्च जगतो मर्यादाभेदे तदीयां मर्यादामात्मनिर्मितां पालयितुमिच्छन् प्रकृतो भगवान् एतदर्थेन चातुर्वर्ण्यादिसंरक्षणार्थं लीलामयं मायाशक्तिप्रयुक्तं स्वेच्छाविग्रहं जग्राहेत्यर्थः ।

‘भौमस्य ब्रह्मणो गुप्त्यै वसुदेवादजीजनत्’ [म.भा.शां. ४७.२९] इति स्मृतिमनुसृत्य पदद्वयमनूद्य व्याचष्टे –

भौमस्येति ।

अंशेनेति ।

स्वेच्छानिर्मितेन मायामयेन स्वरूपेणेत्यर्थः ।

किल इति

किलेत्यस्मिन्नर्थे पौराणिकी प्रसिद्धिरनूद्यते । न हि भगवतो व्यतिरिक्तस्येदं जन्मेति युज्यते, बहुविधागमविरोधादिति भावः ।

ननु वैदिकधर्मसंरक्षणार्थं भगवतो जन्म, ‘यदा यदा हि धर्मस्य’ [भ. गी. ४.७] इत्यादिदर्शनात् । किमिदं ब्राह्मणत्वस्य रक्षणार्थमिति तत्राह –

ब्राह्मणत्वस्य हीति ।

तथापि वर्णाश्रमभेदव्यवस्थापनं विना कथं यथोक्तधर्मरक्षणमित्याशङ्क्याह –

तदधीनत्वादिति ।

ब्राह्मणं हि पुरोधाय क्षत्रादिः प्रतिष्ठां प्रतिपद्यते, याजनाध्यापनयोस्तद्धर्मत्वात् तद्द्वारा च वर्णाश्रमभेदव्यवस्थापनात् । अतो ब्राह्मण्ये रक्षिते सर्वमपि सुरक्षितं भवतीत्यर्थः ।