श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
स च भगवान् ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा सम्पन्नः त्रिगुणात्मिकां स्वां मायां मूलप्रकृतिं वशीकृत्य, अजोऽव्ययो भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन् , स्वमायया देहवानिव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते । स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं धर्मद्वयम् अर्जुनाय शोकमोहमहोदधौ निमग्नाय उपदिदेश, गुणाधिकैर्हि गृहीतोऽनुष्ठीयमानश्च धर्मः प्रचयं गमिष्यतीति । तं धर्मं भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान् गीताख्यैः सप्तभिः श्लोकशतैरुपनिबबन्ध ॥

नन्वेवमपि भगवतो नारायणस्य शरीरादिमत्त्वे सत्यस्मदादिभिरविशेषादनीश्वरत्वप्रसक्तिरित्याशङ्क्य ज्ञानादिकृतं विशेषमाह –

स चेति ।

ज्ञानं – ज्ञप्तिः – अर्थपरिच्छित्तिः, ऐश्वर्यम् – ईश्वरत्वं स्वातन्त्र्यम्, शक्तिः – तदर्थनिर्वर्तनसामर्थ्यम् , बलम् – सहायसम्पत्तिः, वीर्यम् – पराक्रमवत्त्वम् , तेजस्तु प्रागल्भ्यमधृष्यत्वम् , एते च षड्गुणाः सर्वविषयाः सर्वदा भगवति वर्तन्ते । तथा च तस्य शरीरादिमत्त्वेऽपि नास्मदादिसाम्यमित्यर्थः ।

अथैवमपि कथमीश्वरस्यानादिनिधनस्य नित्यशुद्धबुद्वमुक्तस्वभावस्य स्वभावविपरीतं जन्मादि सम्भवति ? न हि भूतानामीशिता स्वतन्त्रः स्वात्मनोऽनर्थं स्वयमेव सम्पादयितुमर्हति, न चास्य देहादिग्रहे किमपि फलमुपलभ्यते, तत्राह –

त्रिगुणात्मिकामिति ।

सिसृक्षितदेहादिगतवैरूप्यसिद्ध्यर्थमिदं विशेषणम् । तस्या व्यापकत्वं वक्तुं वैष्णवीमित्युक्तम् ।

ईश्वरपारवश्यं तस्या दर्शयति –

स्वामिति ।

तस्याश्च प्रतिभासमात्रशरीरत्वमेव न तु वस्तुत्वमित्याह –

मायामिति ।

तस्या नानाविधकार्याकारेण परिणामित्वं सूचयति –

मूलप्रकृतिमिति ।

ईश्वरस्य प्रकृत्यधीनत्वं वारयति –

वशीकृत्येति ।

नित्यशुद्धबुद्धमुक्त

नित्यत्वं कार्याकारविरहितत्वम् , शुद्धत्वमकारणत्वम् , बुद्धत्वं अजडत्वम् , मुक्तत्वं अविद्याकामकर्मपारतन्त्र्यराहित्यम् ।

न च नित्यत्वादयः संसारावस्थायामसन्तो मोक्षावस्थायां सम्भवन्तीति युक्तमित्याह –

स्वभाव इति ।

स्वमायया ।

देहग्रहे प्राधान्यं मायाया दर्शयितुं पुनः स्वमाययेत्युक्तम् ।

इव जात इव

इवकाराभ्यां देहादेरवस्तुत्वेन कल्पितत्वं द्योत्यते ।

लोकानुग्रहमिति

धर्मद्वयोपदेशद्वारा प्राणिवर्गस्याभ्युदयनिःश्रेयसतत्परत्वापादनं लोकानुग्रहः । यद्यपि कूटस्थः स्वतन्त्रो नित्यत्वादिलक्षणश्चायमीश्वरः स्वतो दृश्यते, तथापि यथोक्तमायाशक्त्या देहादि गृहीत्वा प्राणिनामनुग्रहमादधानो न स्वभावविपर्ययं पर्येतीत्यर्थः ।

ननु ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ‘ इति न्यायादीश्वरस्याऽऽप्तकामतया कृतकृत्यस्य प्रयोजनाभावादनुग्राह्याणां चाद्वैतवादे व्यतिरिक्तानामसत्त्वान्न धर्मद्वयमुपदेष्टुमुचितमिति, तत्राह –

स्वप्रयोजनेति ।

कल्पितभेदभाञ्जि भूतान्युपादाय तदनुग्रहेच्छया चैत्यवन्दनादिविलक्षणं धर्मद्वयमर्जुनं निमित्तीकृत्याऽऽप्तकामोऽपि भगवानुपदिष्टवानित्यर्थः ।

अर्जुनस्योपदेशापेक्षास्तीति दर्शयितुं विशिनष्टि –

शोकेति ।

ननु भूतानुग्रहे कर्तव्ये किमित्यर्जुनाय धर्मद्वयं भगवतोपदिश्यते, तत्राह –

गुणाधिकैरिति ।

प्रचयं गमिष्यतीति मत्वा धर्मद्वयमर्जुनायोपदिदेशेति सम्बन्धः ।

अथ तथापि सुगतोपदिष्टधर्मवदयमपि भगवदुपदिष्टो धर्मो न प्रामाणिकोपादेयतामुपगच्छेदित्याशङ्क्य वेदोक्तत्वान्नास्य तत्तुल्यत्वमित्युक्तमित्यभिप्रत्य शिष्टपरिगृहीतत्वाच्च मैवमित्याह –

तं धर्ममिति ।

अधर्मे धर्मबुद्धिर्वेदव्यासस्य जातेत्याशङ्क्याह –

सर्वज्ञ इति ।

‘कृष्णद्वैपायनं विद्धि व्यासं नारायणं प्रभुम्’ [वि.पु. ३.४.५] इति स्मृतेः सज्जनोपकारकभगवदवतारत्वाच्च व्यासस्य नान्यथाबुद्धिरित्याह –

भगवानिति ।