प्रतियोगिनामभावे कथं तव युद्धौत्सुक्यं फलवद् भवेदिति तत्राह –
योत्स्यमानानिति ।
ये केचिदेते राजानो नानादेशेभ्योऽत्र कुरुक्षेत्रे समवेतास्तानहं योत्स्यमानान् - परिगृहीतप्रहरणोपायान् अतितरां सङ्ग्रामसमुत्सुकानुपलभे । तेन प्रतियोगिनां बाहुल्यमित्यर्थः ।
तेषामस्माभिः सह पूर्ववैराभावे कथं प्रतियोगित्वं प्रकल्पते ? तत्राह -
धार्तराष्ट्रस्येति ।
धृतराष्ट्रपुत्रस्य दुर्योधनस्य दुर्बुद्धेः - स्वरक्षणोपायमप्रतिपद्यमानस्य युद्धाय संरम्भं कुर्वतो युद्धे - युद्धभूमौ स्थित्वा प्रियं कर्तुमिच्छवो राजानः समागता दृश्यन्ते, तेन तेषामौपाधिकमस्मत्प्रतियोगित्वमुपपन्नमित्यर्थः ॥ २३ ॥