आत्मीयं बन्धुवर्गं युद्धेच्छया युद्धभूमावुपस्थितमुपलभ्य शोकप्रवृत्तिं दर्शयति -
सीदन्तीति ।
देवांशस्यैवार्जुनस्यानात्मविदः स्वपरदेहेष्वात्मात्मीयाभिमानवतः तत्प्रियस्य युद्धारम्भे तन्मृत्युप्रसङ्गदर्शिनः शोको महानासीदित्यर्थः ।
अङ्गेषु व्यथा मुखे परिशोषश्चेत्युभयं शोकलिङ्गमुक्तम् । सम्प्रति वेपथुप्रभृतीनि भीतिलिङ्गान्युपन्यस्यति -
वेपथुश्चेति ।
रोमहर्षः - रोम्णां गात्रेषु पुलकितत्वम् ॥ २९ ॥