वर्णसङ्करस्य दोषपर्यवसायितामादर्शयति -
सङ्कर इति ।
कुलक्षयकराणां दोषान्तरं समुच्चिनोति -
पतन्तीति ।
कुलक्षयकृतां पितरो निरयगामिनो सम्भवन्तीत्यत्र हेतुमाह –
लुप्तेति ।
पुत्रादीनां कर्तॄणामभावात् लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा । ततश्च प्रेतत्वपरावृत्तिकारणाभावात् नरकपतनमेव आवश्यकमापतेदित्यर्थः ॥ ४२ ॥