श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तदसत् ; ज्ञानकर्मनिष्ठयोर्विभागवचनाद्बुद्धिद्वयाश्रययोः । ‘अशोच्यान्’ (भ. गी. २ । ११) इत्यादिना भगवता यावत् ‘स्वधर्ममपि चावेक्ष्य’ (भ. गी. २ । ३१) इत्येतदन्तेन ग्रन्थेन यत्परमार्थात्मतत्त्वनिरूपणं कृतम् , तत्साङ्ख्यम् । तद्विषया बुद्धिः आत्मनो जन्मादिषड्विक्रियाभावादकर्ता आत्मेति प्रकरणार्थनिरूपणात् या जायते, सा साङ्ख्या बुद्धिः । सा येषां ज्ञानिनामुचिता भवति, ते साङ्ख्याः । एतस्या बुद्धेः जन्मनः प्राक् आत्मनो देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वाद्यपेक्षो धर्माधर्मविवेकपूर्वको मोक्षसाधनानुष्ठानलक्षणो योगः । तद्विषया बुद्धिः योगबुद्धिः । सा येषां कर्मिणामुचिता भवति ते योगिनः । तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे ‘एषा तेऽभिहिता साङ्‍ख्ये बुद्धिर्योगे त्विमां शृणु’ (भ. गी. २ । ३९) इति । तयोश्च साङ्‍ख्यबुद्ध्याश्रयां ज्ञानयोगेन निष्ठां साङ्‍ख्यानां विभक्तां वक्ष्यति ‘पुरा वेदात्मना मया प्रोक्ता’ (भ. गी. ३ । ३) इति । तथा च योगबुद्ध्याश्रयां कर्मयोगेन निष्ठां विभक्तां वक्ष्यति — ‘कर्मयोगेन योगिनाम्’ इति । एवं साङ्‍ख्यबुद्धिं योगबुद्धिं च आश्रित्य द्वे निष्ठे विभक्ते भगवतैव उक्ते ज्ञानकर्मणोः कर्तृत्वाकर्तृत्वैकत्वानेकत्वबुद्ध्याश्रययोः युगपदेकपुरुषाश्रयत्वासम्भवं पश्यता । यथा एतद्विभागवचनम् , तथैव दर्शितं शातपथीये ब्राह्मणे — ‘एतमेव प्रव्राजिनो लोकमिच्छन्तो ब्राह्मणाः प्रव्रजन्ति’ इति सर्वकर्मसंन्यासं विधाय तच्छेषेण ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इति । तत्र च प्राक् दारपरिग्रहात् पुरुषः आत्मा प्राकृतो धर्मजिज्ञासोत्तरकालं लोकत्रयसाधनम् — पुत्रम् , द्विप्रकारं च वित्तं मानुषं दैवं च ; तत्र मानुषं कर्मरूपं पितृलोकप्राप्तिसाधनं विद्यां च दैवं वित्तं देवलोकप्राप्तिसाधनम् — ‘सोऽकामयत’ (बृ. उ. १ । ४ । १७) इति अविद्याकामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि । तेभ्यः ‘व्युत्थाय, प्रव्रजन्ति’ इति व्युत्थानमात्मानमेव लोकमिच्छतोऽकामस्य विहितम् । तदेतद्विभागवचनमनुपपन्नं स्याद्यदि श्रौतकर्मज्ञानयोः समुच्चयोऽभिप्रेतः स्याद्भगवतः ॥

यत् तावत् ‘ब्रह्मज्ञानं सेतिकर्तव्यताकं, स्वफलसाधकं, करणत्वात्’ इत्यनुमानं तद्दूषयति -

तदसदिति ।

न हि शुक्तिकादिज्ञानमज्ञाननिवृत्तौ स्वफले सहकारि किञ्चिदपेक्षते, तथा च व्यभिचारादसाधकं करणत्वमित्यर्थः ।

यत्तु - गीताशास्त्रे समुच्चयस्यैव प्रतिपाद्यतेति प्रतिज्ञातम् , तदपि विभागवचनविरुद्धमित्याह -

ज्ञानेति ।

साङ्ख्यबुद्धिर्योगबुद्धिश्चेति बुद्धिद्वयम् । तत्र साङ्ख्यबुद्ध्याश्रयां ज्ञाननिष्ठां व्याख्यातुं साङ्ख्यशब्दार्थमाह -

अशोच्यानित्यादिनेति ।

‘अशोच्यान्’ (भ. भ. गी. २-११) इत्यादि ‘स्वधर्ममपि चावेक्ष्य’ (भ. भ. गी. २-३१) इत्येतदन्तं वाक्यं यावद्भविष्यति तावता ग्रन्थेन यत् परमार्थभूतमात्मतत्त्वं भगवता निरूपितम् , तत् यया सम्यक् ख्यायते - प्रकाश्यते सा वैदिकी सम्यग्बुद्भिः सङ्ख्या । तया प्रकाश्यत्वेन सम्बन्धि प्रकृतं तत्त्वं साङ्ख्यमित्यर्थः ।

साङ्ख्यशब्दार्थमुक्तवा तत्प्रकाशिकां बुद्धिं तद्वतश्च साङ्ख्यान् व्याकरोति -

तद्विषयेति ।

तद्विषया बुद्धिः साङ्ख्यबुद्धिरिति सम्बन्धः ।

तामेव प्रकटयति -

आत्मन इति ।

‘न जायते म्रियते वा’ (भ. भ. गी. २-२०) इत्यादिप्रकरणार्थनिरूपणद्वारेण आत्मनः षड्भावविक्रियाऽसम्भवात् कूटस्थोऽसाविति या बुद्धिरुत्पद्यते सा साङ्ख्यबुद्धिः, तत्पराः संन्यासिनः साङ्ख्या इत्यर्थः ।

सम्प्रति योगबुद्ध्याश्रयां कर्मनिष्ठां व्याख्यातुकामो योगशब्दार्थमाह   -

एतस्या इति ।

यथोक्तबुद्ध्युत्पत्तौ विरोधादेवानुष्ठानायोगात् तस्यास्तन्निवर्तकत्वात् पूर्वमेव तदुत्पत्तेरात्मनो देहादिव्यतिरिक्तत्वाद्यपेक्षया धर्माधर्मौ निष्कृष्य तेन ईश्वराराधनरूपेण कर्मणा पुरुषो मोक्षाय युज्यते - योग्यः सम्पद्यते । तेन मोक्षसिद्धये परम्परया साधनीभूतप्रागुक्तधर्मानुष्ठानात्मको योग इत्यर्थः ।

अथ योगबुद्धिं विभजन् योगिनो विभजते -

तद्विषयेति ।

उक्ते बुद्धिद्वये भगवतोऽभिमतिं दर्शयति -

तथा चेति ।

साङ्ख्यबुद्ध्याश्रया ज्ञाननिष्ठेत्येतदपि भगवतोऽभिमतमित्याह -

तयोश्चेति ।

ज्ञानमेव योगो ज्ञानयोगः । तेन हि ब्रह्मणा युज्यते - तादात्म्यमापद्यते । तेन संन्यासिनां निष्ठा - निश्चयेन स्थितिस्तात्पर्येण परिसमाप्तिः, तां कर्मनिष्ठातो व्यतिरिक्तां निष्ठयोर्मध्ये निष्कृष्य भगवान् वक्ष्यतीति योजना । ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन साङ्ख्यानाम्’ (भ. भ. गी. ३-३) इत्येतद्वाक्यमुक्तार्थविषयमर्थतोऽनुवदति -

पुरेति ।

योगबुद्ध्याश्रया कर्मनिष्ठेत्यत्रापि भगवदनुमतिमादर्शयति -

तथा चेति ।

कर्मैव योगः कर्मयोगः । तेन  हि बुद्धिशुद्धिद्वारा मोक्षहेतुज्ञानाय पुमान् युज्यते । तेन निष्ठां कर्मिणां ज्ञाननिष्ठातो विलक्षणां कर्मयोगेनेत्यादिना वक्ष्यति भगवानिति योजना ।

निष्ठाद्वयं बुद्धिद्वयाश्रयं भगवता विभज्योक्तमुपसंहरति -

एवमिति ।

कया पुनरनुपपत्त्या भगवता निष्ठाद्वयं विभज्योक्तम् ? इत्याशङ्क्याह -

ज्ञानकर्मणोरिति ।

कर्म हि कर्तृत्वानेकत्वबुद्ध्याश्रयम् , ज्ञानं पुनरकर्तृत्वैकत्वबुद्ध्याश्रयम् । तदुभयमित्थं विरुद्धसाधनसाध्यत्वात् न एकावस्थस्यैव पुरुषस्य सम्भवति । अतो युक्तमेव तयोर्विभागवचनमित्यर्थः ।

भगवदुक्तविभागवचनस्य मूलत्वेन श्रुतिमुदाहरति-

यथेति ।

तत्र ज्ञाननिष्ठाविषयं वाक्यं पठति -

एतमेवेति ।

प्रकृतमात्मानं नित्यविज्ञप्तिस्वभावं वेदितुमिच्छन्तः त्रिविधेऽपि कर्मफले वैतृष्ण्यभाजः सर्वाणि कर्माणि परित्यज्य ज्ञाननिष्ठा भवन्तीति पञ्चमलकारस्वीकारेण संन्यासविधिं विवक्षित्वा, तस्यैव विधेः शेषेणार्थवादेन ‘किं प्रजया’ (बृ. उ. ४-४-२२) इत्यादिना मोक्षफलं ज्ञानमुक्तमित्यर्थः ।

ननु - फलाभावात् प्रजाक्षेपो नोपपद्यते, पुत्रेणैतल्लोकजयस्य वाक्यान्तरसिद्धत्वात् , इत्याशङ्क्य, विदुषां प्रजासाध्यमनुष्यलोकस्य आत्मव्यतिरेकेणाभावात् , आत्मनश्चासाध्यत्वादाक्षेपो युक्तिमानिति विवक्षित्वाह -

येषामिति ।

इति ज्ञानं दर्शितमिति शेषः ।

तस्मिन्नेव ब्राह्मणे कर्मनिष्ठाविषयं वाक्यं दर्शयति -

तत्रैवेति ।

प्राकृतत्वम् - अतत्त्वदर्शित्वेनाज्ञत्वम् । स च ब्रह्मचारी सन् गुरुसमीपे यथाविधि वेदमधीत्य अर्थज्ञानार्थं धर्मजिज्ञासां कृत्वा तदुत्तरकालं लोकत्रयप्राप्तिसाधनं पुत्रादित्रयं ‘सोऽकामयत जाया मे स्यात्’ (बृ. उ. १-४-१७) इत्यादिना कामितवानिति श्रुतमित्यर्थः ।

वित्तं विभजते -

द्विप्रकारमिति ।

तदेव प्रकारद्वैरूप्यमाह -

मानुषमिति ।

मानुषं वित्तं व्याचष्टे -

कर्मरूपमिति ।

तस्य फलपर्यवसायित्वमाह -

पितृलोकेति ।

दैवं वित्तं विभजते -

विद्यां चेति ।

तस्यापि फलनिष्ठत्वमाह -

देवेति ।

कर्मनिष्ठाविषयत्वेनोदाहृतश्रुतेस्तात्पर्यमाह -

अविद्येति ।

अज्ञस्य कामनाविशिष्टस्यैव कर्माणि ‘सोऽकामयत’ (बृ. उ. १-४-१७) इत्यादिना दर्शितानीत्यर्थः ।

ज्ञाननिष्ठाविषयत्वेन दर्शितश्रुतेरपि तात्पर्यं दर्शयति -

तेभ्य इति ।

कर्मसु विरक्तस्यैव संन्यास - पूर्विका ज्ञाननिष्ठा प्रागुदाहृतश्रुत्या दर्शितेत्यर्थः ।

अवस्थाभेदेन ज्ञानकर्मणोर्भिन्नाधिकारत्वस्य श्रुतत्वात् तन्मूलेन भगवतो विभागवचनेन शास्त्रस्य समुच्चयपरत्वं प्रतिज्ञातमपबाधितमिति साधितम् । किञ्च समुच्चयो ज्ञानस्य श्रौतेन, स्मार्तेन वा कर्मणा विवक्ष्यते ? यदि प्रथमस्तत्राह -

तदेतदिति ।