आत्मा न जायते प्रागभावशून्यत्वात् , नरविषाणवदिति परिहरति -
न त्वेवेति ।
किञ्च आत्मा नित्यः, भावत्वे सत्यजातत्वात् व्यतिरेकेण घटवत् इत्यनुमानान्तरमाह -
न चैवेति ।
यत्तु - कैश्चित् आत्मयाथात्म्यं जिज्ञासितं भगवानुपदिशति न त्वित्यादिना श्लोकचतुष्टयेन इत्यादिष्टम् , तदसत् । विशेषवचने हेत्वभावात् , सर्वत्रैव आत्मयाथात्म्यप्रतिपादनाविशेषात् इत्याशयेन ।
‘पदच्छेदः पदार्थोक्तिर्वाक्ययोजना’ इति त्रितयमपि व्याख्यानाङ्गं सम्पादयति -
न त्वित्यादिना ।
ननु - आत्मनो देहोत्पत्तिविनाशयोरुत्पत्तिविनाशप्रसिद्धेरुक्तमनुमानद्वयं प्रसिद्धिविरुद्धतया कालात्ययापदिष्टमिति, नेत्याह -
अतीतेष्विति ।
‘चराचरव्यपाश्रयस्तु स्यात्’ (ब्र. सू. २-३-१६) इति न्यायेन आत्मनो जन्मविनाशप्रसिद्धेरौपाधिकजन्यविनाशविषयत्वात् निरुपाधिकस्य तस्य जन्मादिराहित्यमिति भावः ।
यद्यपि तवेश्वरस्य जन्मराहित्यं, तथापि कथं मम ? इत्याशङ्क्याह -
तथेति ।
तथापि भीष्मादीनां कथं जन्माभावः ?, तत्राह -
‘तथा नेमे’ इति ।
द्वितीयमनुमानं प्रपञ्चयन्नुत्तरार्धं व्याचष्टे -
तथेत्यादिना ।
ननु - देहोत्पत्तिविनाशयोरात्मनो जन्मनाशाभावेऽपि महासर्गमहाप्रलययोस्तस्याग्निविस्फुलिङ्गदृष्टान्तश्रृत्या जन्मविनाशावेष्टव्यावित्याशङ्क्य, ‘नाऽऽत्माऽश्रुतेः’ (ब्र. सू. २. ३. १७) इति न्यायेन परिहरति -
त्रिष्वपीति ।
‘यावद्विकारं तु विभागो लोकवत्’ (ब्र. सू. २-३-७) इति न्यायेन भिन्नत्वात् विकारित्वमात्मनामनुमीयते । भिन्नत्वं च बहुवचनप्रयोगप्रमितमित्याशङ्क्याह -
देहेति
॥ १२ ॥