श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
त्वेवाहं जातु नासं त्वं नेमे जनाधिपाः
चैव भविष्यामः सर्वे वयमतः परम् ॥ १२ ॥
कुतस्ते अशोच्याः, यतो नित्याः । कथम् ? —

नित्यत्वमशोच्यत्वे कारणमिति सूचितं विवेचयितुं प्रश्नपूर्वकं प्रतिजानीते -

कुत इत्यादिना ।

नित्यत्वमसिद्धं प्रमाणाभावात् इति चोदयति -

कथमिति ।