न केवलमागमादेव आत्मनो नित्यत्वम् , किन्तु अवस्थान्तरवत् जन्मान्तरे पूर्वसंस्कारानुवृत्तेश्चेत्याह -
देहिन इति ।
देहवत्त्वं - तस्मिन्नहंममाभिमानभाक्त्वम् । तासामिति निर्धारणे षष्ठी । आत्मनः श्रुतिस्मृत्युपपत्तिभिर्नित्यत्वज्ञानं धीमानित्यत्र धीर्विवक्ष्यते ।
एवं सतीति ।
तत्त्वतो विक्रियाभावात् नित्यत्वे समधिगते सतीत्यर्थः ॥ १३ ॥