श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा
तथा देहान्तरप्राप्तिर्धीरस्तत्र मुह्यति ॥ १३ ॥
तत्र कथमिव नित्य आत्मेति दृष्टान्तमाह —

ननु - पूर्वं देहं विहाय अपूर्वं देहमुपादानस्य विक्रियावत्त्वेनोत्पत्तिविनाशवत्त्वविभ्रमः समुद्भवेत् इति शङ्कते -

तत्रेति ।

अशोच्यत्वप्रतिज्ञायां नित्यत्वे हेतू कृते सतीति यावत् ।

अवस्थाभेदे सत्यपि वस्तुतो विक्रियाभावादात्मनो नित्यत्वमुपपन्नमित्युत्तरश्लोकेन दृष्टान्तावष्टम्भेन प्रतिपादयतीत्याह -

दृष्टान्तमिति ।