श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नासतो विद्यते भावो नाभावो विद्यते सतः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥
असतः अविद्यमानस्य शीतोष्णादेः सकारणस्य विद्यते नास्ति भावो भवनम् अस्तिता
नासतो विद्यते भावो नाभावो विद्यते सतः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥
असतः अविद्यमानस्य शीतोष्णादेः सकारणस्य विद्यते नास्ति भावो भवनम् अस्तिता

यतः शीतादेः शोकादिहेतोः, अनात्मनो नास्ति वस्तुत्वम् , वस्तुनश्च आत्मनो निर्विकारत्वेन एकरूपत्वम् , अतो मुमुक्षोर्विशेषणं तितिक्षुत्वं युक्तमित्याह -

नेत्यादिना ।

कार्यस्यासत्त्वेऽपि कारणस्य सत्त्वेन अत्यन्तासत्त्वासिद्धिरित्याशङ्क्य विशिनष्टि -

सकारणस्येति ।