नासत इत्युपादाय, पुनर्नकारानुकर्षणमन्वयार्थम् । असतः शून्यस्य अस्तित्वप्रसङ्गाभावात् अप्रसक्तप्रतिषेधप्रसक्तिरित्याशङ्क्याह -
न हीति ।
विमतं - अतात्त्विकम् , अप्रामणिकत्वाद् - रज्जुसर्पवत् । न हि धर्मिग्राहकस्य प्रत्यक्षादेस्तत्त्वावेदकं प्रामाण्यं कल्प्यते, विषयस्य दुर्निरूपत्वात् , अतोऽनिर्वाच्यं द्वैतमित्यर्थः ।
कथं पुनरध्यक्षादिविषयस्य शीतोष्णादिद्वैतस्य दुर्निरूपत्वेन अनिर्वाच्यत्वम् ?, तत्राह -
विकारोहीति ।
ततश्च विमतं - मिथ्या आगमापायित्वात् सम्प्रतिपन्नवदिति ।
फलितमाह -
विकारश्चेति ।
वाचारम्भणश्रुतेर्द्वैतमिथ्यात्वे अनुग्राहकत्वं दर्शयितुं चकारः ।
किञ्च कार्यं कारणाद्भिन्नम् , अभिन्नं वा इति विकल्प्य, आद्यं दूषयति -
यथेति ।
निरूप्यमाणम् , अन्तर्बहिश्चेति शेषः । विमतं कारणान्न तत्त्वतो भिद्यते, कार्यत्वाद् - घटवदित्यर्थः ।
इतोऽपि कारणाद्भेदेन नास्ति कार्यम् , ‘आदावन्ते च यन्नास्ति वर्तमानेऽपि तत् तथा’ (मां. का. २-६) इति न्यायादित्याह -
जन्मेति ।
यदि कार्यं कारणादभिन्नम् , तदा तस्य भेदेन असत्त्वे पूर्वस्मादविशेषः । तादात्म्येनावस्थानं तु न युक्तम् , तस्यापि कारणव्यतिरेकेणाभावात् ।
कार्यकारणविभागाविधुरे वस्तुनि कार्यकारणपरम्पराया विभ्रमत्वादित्यभिप्रेत्याह -
मृदादीति ।