श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नासतो विद्यते भावो नाभावो विद्यते सतः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥
हि शीतोष्णादि सकारणं प्रमाणैर्निरूप्यमाणं वस्तुसद्भवतिविकारो हि सः, विकारश्च व्यभिचरतियथा घटादिसंस्थानं चक्षुषा निरूप्यमाणं मृद्व्यतिरेकेणानुपलब्धेरसत् , तथा सर्वो विकारः कारणव्यतिरेकेणानुपलब्धेरसन्जन्मप्रध्वंसाभ्यां प्रागूर्ध्वं अनुपलब्धेः कार्यस्य घटादेः मृदादिकारणस्य तत्कारणव्यतिरेकेणानुपलब्धेरसत्त्वम्

नासत इत्युपादाय, पुनर्नकारानुकर्षणमन्वयार्थम् । असतः शून्यस्य अस्तित्वप्रसङ्गाभावात् अप्रसक्तप्रतिषेधप्रसक्तिरित्याशङ्क्याह -

न हीति ।

विमतं - अतात्त्विकम् , अप्रामणिकत्वाद् - रज्जुसर्पवत् । न हि धर्मिग्राहकस्य प्रत्यक्षादेस्तत्त्वावेदकं प्रामाण्यं कल्प्यते, विषयस्य दुर्निरूपत्वात् , अतोऽनिर्वाच्यं द्वैतमित्यर्थः ।

कथं पुनरध्यक्षादिविषयस्य शीतोष्णादिद्वैतस्य दुर्निरूपत्वेन अनिर्वाच्यत्वम् ?, तत्राह -

विकारोहीति ।

ततश्च विमतं - मिथ्या आगमापायित्वात् सम्प्रतिपन्नवदिति ।

फलितमाह -

विकारश्चेति ।

वाचारम्भणश्रुतेर्द्वैतमिथ्यात्वे अनुग्राहकत्वं दर्शयितुं चकारः ।

किञ्च कार्यं कारणाद्भिन्नम् , अभिन्नं वा इति विकल्प्य, आद्यं दूषयति -

यथेति ।

निरूप्यमाणम् , अन्तर्बहिश्चेति शेषः । विमतं कारणान्न तत्त्वतो भिद्यते, कार्यत्वाद् - घटवदित्यर्थः ।

इतोऽपि कारणाद्भेदेन नास्ति कार्यम् , ‘आदावन्ते च यन्नास्ति वर्तमानेऽपि तत् तथा’ (मां. का. २-६) इति न्यायादित्याह -

जन्मेति ।

यदि कार्यं कारणादभिन्नम् , तदा तस्य भेदेन असत्त्वे पूर्वस्मादविशेषः । तादात्म्येनावस्थानं तु न युक्तम् , तस्यापि कारणव्यतिरेकेणाभावात् ।

कार्यकारणविभागाविधुरे वस्तुनि कार्यकारणपरम्पराया विभ्रमत्वादित्यभिप्रेत्याह -

मृदादीति ।