श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नासतो विद्यते भावो नाभावो विद्यते सतः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥
इतश्च शोकमोहौ अकृत्वा शीतोष्णादिसहनं युक्तम् , यस्मात् —

अधिकारिविशेषणे तितिक्षुत्वे हेत्वन्तरपरत्वेन उत्तरश्लोकमवतारयति -

इतश्चेति ।

इतःशब्दार्थमेवस्फुटयति -

यस्मादिति ।