श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥
अन्तः विनाशः विद्यते येषां ते अन्तवन्तःयथा मृगतृष्णिकादौ सद्बुद्धिः अनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते, तस्य अन्तः ; तथा इमे देहाः स्वप्नमायादेहादिवच्च अन्तवन्तः नित्यस्य शरीरिणः शरीरवतः अनाशिनः अप्रमेयस्य आत्मनः अन्तवन्त इति उक्ताः विवेकिभिरित्यर्थः । ‘नित्यस्य’ ‘अनाशिनःइति पुनरुक्तम् ; नित्यत्वस्य द्विविधत्वात् लोके, नाशस्य यथा देहो भस्मीभूतः अदर्शनं गतो नष्ट उच्यतेविद्यमानोऽपि यथा अन्यथा परिणतो व्याध्यादियुक्तो जातो नष्ट उच्यतेतत्रनित्यस्य’ ‘अनाशिनःइति द्विविधेनापि नाशेन असम्बन्धः अस्येत्यर्थःअन्यथा पृथिव्यादिवदपि नित्यत्वं स्यात् आत्मनः ; तत् मा भूदितिनित्यस्य’ ‘अनाशिनःइत्याहअप्रमेयस्य प्रमेयस्य प्रत्यक्षादिप्रमाणैः अपरिच्छेद्यस्येत्यर्थः

ननु - देहादिषु सद्बुद्धेरनुवृत्तेस्तस्या विच्छेदाभावात् कथमन्तवत्त्वं तेषामिष्यते ? तत्राह -

यथेति ।

तथेमे देहाः, सद्बुभाजोऽपि प्रमाणतो निरूपणायामवसाने विच्छेदादन्तवन्तो भवन्तीति शेषः ।

देहत्वादिना च जाग्रद्देहादेरन्तवत्त्वं सम्प्रतिपन्नवदनुमातुं शक्यमित्याह -

स्वप्नेति ।

तेषां स्वातन्त्र्यं व्युदस्यति -

नित्यस्येति ।

आकाशादिव्यावृत्त्यर्थं विशिनष्टि -

शरीरिण इति ।

परिणामिनित्यत्वं व्यवच्छिनति -

अनाशिन इति ।

तस्य प्रत्यक्षाद्यविषयत्वमाह -

अप्रमेयस्येति ।

प्रवाहस्य प्रवाहिव्यतिरेकेण अनिरूपणात् न तदात्मनः देहाद्यभावे सम्बन्धसिद्धिरित्यभिसन्धायोक्तम् -

विवेकिभिरिति ।

शरीरादेरन्तवत्त्वेऽपि प्रवाहरूपेण आत्मनस्तत्सम्बन्धस्यानन्तवत्त्वमाशङ्क्याह -

नित्यस्येति ।

नित्यत्वस्य द्वैविध्यसिद्ध्यर्थं नाशद्वैविध्यं प्रकटयति -

यथेत्यादिना ।

नाशस्य निरवशेषत्वेन सावशेषत्वेन च सिद्धे द्वैविध्ये फलितमाह -

तत्रेति ।

पदद्वयस्यैकार्थत्वमाशङ्क्य निरस्यति -

नित्यस्येत्यादिना ।

विशेषणाभ्यां कूटस्थानित्यत्वमात्मनो विवक्षितमित्यर्थः ।

अन्यतरविशेषणमात्रोपादाने परिणामिनित्यत्वमात्मनः शङ्क्येत इत्यनिष्टापत्तिमाशङ्क्याह -

अन्यथेति ।