औपनिषदत्वविशेषणमाश्रित्य अप्रमेयत्वमाक्षिपति -
नन्विति ।
इतश्च आत्मनो नाप्रमेयत्वमित्याह -
प्रत्यक्षादिनेति ।
तेन च आगमप्रवृत्त्यपेक्षया पूर्वावस्थायामात्मैव परिच्छिद्यते, तस्मिन्नेव अज्ञातत्वसम्भवात् , ‘अज्ञातज्ञापकं प्रमाणम्’ इति च प्रमाणलक्षणादित्यर्थः ।
‘एतदप्रमेयम्’ (बृ. उ. ४. ४. २०) इत्यादिश्रुतिमनुसृत्य परिहरति -
नेत्यादिना ।
कथं मानमनपेक्ष्य आत्मनः सिद्धत्वमित्याशङ्क्योक्तं विवृणोति -
सिद्धे हीति ।
प्रमित्सोः प्रमेयमिति शेषः ।
तदेव व्यतिरेकमुखेन विशदयति -
न हीति ।
आत्मनः सर्वलोकप्रसिद्धत्वाच्च तस्मिन् न प्रमाणमन्वेषणीयमित्याह -
न ह्यात्मेति ।
प्रत्यक्षादेरनात्मविषयत्वात् तत्र चाज्ञातताया व्यवहारे सम्भवात् तत्प्रामाण्यस्य च व्यावहारिकत्वात् ।
विशिष्टे तत्प्रवृत्तावपि केवले तदप्रवृत्तेः यद्यपि नात्मनि तत्प्रामाण्यम् , तथापि तद्धितश्रुत्या शास्त्रस्य तत्र प्रवृत्तिरवश्यम्भाविनीत्याशङ्क्याह -
शास्त्रं त्विति ।
शास्त्रेण प्रत्यग्भूते ब्रह्मणि प्रतिपादिते प्रमात्रादिविभागस्य व्यावृत्तत्वात् युक्तमस्यान्त्यत्वम् , अपौरुषेयतया निर्दोषत्वाच्चास्य प्रामाण्यमित्यर्थः । तथापि कथमस्य प्रत्यगात्मनि प्रामाण्यम्, तस्य स्वतःसिद्धत्वेन अविषयत्वात् , अज्ञातज्ञापनायोगात् ? इत्याशङ्क्य, स्वतो भानेऽपि प्रतीचो, ‘मनुष्योऽहं कर्ताहम्’ इत्यादिना मनुष्यत्वकर्तृत्वादीनामतद्धर्माणामध्यारोपणेन आत्मनि प्रतीयमानत्वात् तन्मात्रनिवर्तकत्वेन आत्मनो विषयत्वमनापद्यैव शास्त्रं प्रामाण्यं प्रतिपद्यते, ‘सिद्धं तु निवर्तकत्वात्’ इति न्यायादित्याह -
अतद्धर्मेति ।
घटादाविव स्फुरणातिशयजनकत्वेन किमित्यात्मनि शास्त्रप्रामाण्यं नेष्टमित्याशङ्क्य, जडत्वाजडत्वाभ्यां विशेषादिति मत्वाह -
न त्विति ।
ब्रह्मात्मनो मानापेक्षामन्तरेण स्वतः स्फुरणे प्रमाणमाह -
तथा चेति ।
साक्षात् - अन्यापेक्षामन्तरेण अपरोक्षात् - अपरोक्षस्फुरणात्मकं यद्ब्रह्म, न च तस्यात्मनोऽर्थान्तरत्वम् , सर्वाभ्यन्तरत्वेन सर्ववस्तुसारत्वात् तमात्मानं व्याचक्ष्वेति योजना ।