श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
किं पुनस्तदसत् , यत्स्वात्मसत्तां व्यभिचरतीति, उच्यते
किं पुनस्तदसत् , यत्स्वात्मसत्तां व्यभिचरतीति, उच्यते

सदसतोरनन्तरप्रकृतयोः स्वरूपाव्यभिचारित्वे परमार्थतया सन्निर्धारितम् । इदानीमसन्निर्दिधारयिषया पृच्छति -

किं पुनरिति ।

असत् असदेवेति निर्धारितत्वात् प्रश्नस्य निरवकाशत्वमाशङ्क्य शून्यं व्यावर्त्य विवक्षितमसत् निर्धारयितुं तस्य सावकाशत्वमाह -

यत् स्वात्मेति ।

देहादेरनात्मवर्गस्य प्रकृतासच्छब्दविषयतेत्याह -

उच्यत इति ।