य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥
य एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हननक्रियायाः कर्तारं यश्च एनम् अन्यो मन्यते हतं देहहननेन ‘हतः अहम्’ इति हननक्रियायाः कर्मभूतम् , तौ उभौ न विजानीतः न ज्ञातवन्तौ अविवेकेन आत्मानम् । ‘हन्ता अहम्’ ‘हतः अस्मि अहम्’ इति देहहननेन आत्मानमहं प्रत्ययविषयं यौ विजानीतः तौ आत्मस्वरूपानभिज्ञौ इत्यर्थः । यस्मात् न अयम् आत्मा हन्ति न हननक्रियायाः कर्ता भवति, न च हन्यते न च कर्म भवतीत्यर्थः, अविक्रियत्वात् ॥ १९ ॥