सर्वविक्रियाराहित्यप्रदर्शनेन हेतुं विशदयन् मन्त्रमेव पठति -
न जायत इति ।
जन्ममरणविक्रियाद्वयप्रतिषेधं साधयति -
नायमिति ।
अयमात्मा भूत्वा नाभविता, न वा अभूत्वा भूयो भवितेति योजना ।
न केवलं विक्रियाद्वयमेवात्र निषिध्यते, किन्तु सर्वमेव विक्रियाजातमित्याह -
अज इति ।
वाच्यमर्थमुक्त्वा विवक्षितमर्थमाह -
जनिलक्षणेति ।
विकल्पार्थत्वं व्यावर्तयति -
वेति ।
निष्पन्नमर्थं निर्दिशति -
नेत्यादिना ।
सम्बन्धमेवाभिनयति -
न कदाचिदिति ।
अन्त्यविक्रियाभावे हेतुत्वेन नायमित्यादि व्याचष्टे -
यस्मादिति ।
उक्तमेव व्यनक्ति -
यो हीति ।
आत्मनि तु भूत्वा पुनरभवनाभावान्नास्ति मृत्युरित्यर्थः ।
आत्मनो जन्माभावेऽपि हेतुरिहैव विवक्षितः, इत्याह -
वाशब्दादिति ।
अभूत्वेति च्छेदः । देहवदिति व्यतिरेकोदाहरणम् ।
उक्तमेवार्थं साधयति -
यो हीति ।
जन्माभावे तत्पूर्विकास्तित्वविक्रियाऽपि नात्मनोऽस्तीत्याह -
यस्मादिति ।
प्राणवियोगादात्मनो मृतेरभावे सावशेषनाशाभाववन्निरवशेषनाशाभावोऽपि सिध्यति, इत्याह -
यस्मादिति ।
ननु - जन्मनाशयोर्निषेधे तदन्तर्गतानां विक्रियान्तराणामपि निषेधसिद्धेस्तन्निषेधार्थं न पृथक् प्रयतितंव्यमिति, तत्राह -
यद्यपीति ।
स्वशब्दैः - मध्यवर्तिविक्रियानिषेधवाचकैरिति यावत् ।
आर्थिकेऽपि निषेधे, निषेधस्य सिद्धतया शाब्दो निषेधो न पृथगर्थवान् इत्याशङ्क्याह -
अनुक्तानामिति ।
नित्यशब्देन शाश्वतशब्दस्य पौनरुक्त्यं परिहरन् व्याकरोति -
शाश्वत इत्यादिना ।
अपक्षयो हि स्वरूपेण वा स्यात् ? गुणापचयतो वा ? इति विकल्प्य, क्रमेण दूषयति -
नेत्यादिना ।
पुराणपदस्य अगतार्थत्वं कथयति -
अपक्षयेति ।
तदेव स्फुटयति -
यो हीति ।
‘न म्रियते वा’ इत्यनेन चतुर्थपादस्य पौनरुक्त्यमाशङ्क्य, व्याचष्टे -
तथेत्यादिना ।
ननु - हिंसार्थो हन्तिः श्रूयते, तत् कथं विपरिणामो निषिध्यते ? तत्राह -
हन्तिरिति ।
हिंसार्थत्वसम्भवे किमित्यर्थान्तरं हन्तेरिष्यते ? तत्राह -
अपुनरुक्ततायै इति ।
हिंसार्थत्वे मृतिनिषेधेन पौनरुक्त्यं स्यात् , तन्निषेधार्थं विपरिणामार्थत्वमेष्टव्यमित्यर्थः ।
पूर्वावस्थात्यागेन अवस्थान्तराप्रपत्तिर्विपरिणामः । तदर्थश्चेदत्र हन्तिरिष्यते, तदा निष्पन्नमर्थमाह -
नेति ।
‘न जायते’ (क. उ. १-२-१८) इत्यादिमन्त्रार्थमुपसंहरति -
अस्मिन्निति ।
षण्णां विकाराणामात्मनि प्रतिषेधे फलितमाह -
सर्वेति ।
आत्मनः सर्वविक्रियाराहित्येऽपि किमायातमित्याशङ्क्याह -
यस्मादिति
॥ २० ॥