श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
जायते म्रियते वा कदाचिन्नायं भूत्वाभविता वा भूयः
अजो नित्यः शाश्वतोऽयं पुराणो हन्यते हन्यमाने शरीरे ॥ २० ॥
कथमविक्रय आत्मेति द्वितीयो मन्त्रः —

तदेव साधयितुं ‘न जायते म्रियते वा विपश्चित्’ (क. उ. १-२-१८) इत्यादिमन्त्रान्तरमवतारयति -

कथमिति ।