श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वेदाविनाशिनं नित्यं एनमजमव्ययम्
कथं पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥
‘य एनं वेत्ति हन्तारम्’ (भ. गी. २ । १९) इत्यनेन मन्त्रेण हननक्रियायाः कर्ता कर्म च न भवति इति प्रतिज्ञाय, ‘न जायते’ इत्यनेन अविक्रियत्वं हेतुमुक्त्वा प्रतिज्ञातार्थमुपसंहरति —

पूर्वश्लोकार्थस्यैवोत्तरत्रापि प्रतिभानात् पौनरुक्त्यमाशङ्क्य, वृत्तानुवादपूर्वकमुत्तरश्लोकमवतारयति -

य एनमित्यादिना ।