श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २२ ॥
प्रकृतं तु वक्ष्यामः । तत्र आत्मनः अविनाशित्वं प्रतिज्ञातम् । तत् किमिवेति, उच्यते —

आत्मनोऽविक्रियत्वेन कर्मासम्भवं प्रतिपाद्य अविक्रियत्वहेतुसमर्थनार्थमेव उत्तरग्रन्थमवतारयति -

प्रकृतं त्विति ।

किं तत्प्रकृतम् ? इति शङ्कमानं प्रत्याह -

तत्रेति ।

अविनाशित्वमित्युपलक्षणम् , अविक्रियत्वमित्यर्थः ।

तदेव दृष्टान्तेन स्पष्टयितुमुत्तरश्लोकमुत्थापयति -

तदित्यादिना ।