श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः
चैनं क्लेदयन्त्यापो शोषयति मारुतः ॥ २३ ॥
कस्मात् अविक्रिय एवेति, आह —

पृथिव्यादिभूतचतुष्टयप्रयुक्तविक्रियाभाक्त्वात् आत्मनोऽसिद्धं अविक्रियत्वमिति शङ्कते -

कस्मादिति ।

यतो न भूतानि आत्मानं गोचरयितुमर्हन्ति अतो युक्तमाकाशवत् तस्य अविक्रियत्वमिति शङ्कते -

आहेत्यादिना

॥ २३ ॥