श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥
यस्मात् अन्योन्यनाशहेतुभूतानि एनमात्मानं नाशयितुं नोत्सहन्ते अस्यादीनि तस्मात् नित्यःनित्यत्वात् सर्वगतःसर्वगतत्वात् स्थाणुः इव, स्थिर इत्येतत्स्थिरत्वात् अचलः अयम् आत्माअतः सनातनः चिरन्तनः, कारणात्कुतश्चित् निष्पन्नः, अभिनव इत्यर्थः

पूर्वार्धमु्त्तरार्धे हेतुत्वेन योजयति -

 यस्मादिति ।

नित्यत्वादीनामन्योन्यं हेतुहेतुमद्भावं सूचयति-

नित्यत्वादित्यादिना ।

न च नित्यत्वं परमाणुषु व्यभिचारादसाधकं सर्वगतत्वस्येति वाच्यम् । तेषामेव अप्रामाणिकत्वेन व्यभिचारानवतारात् । न च सर्वगतत्वेऽपि विक्रियाशक्तिमत्त्वमात्मनोऽस्तीति युक्तम् , विभुत्वेनाभिमते नभसि तदनुपलम्भात् । न च विक्रियाशक्तिमत्वे स्थैर्यमास्थातुं शक्यम् , तथाविधस्य मृदादेरस्थिरत्वदर्शनात् , इत्याशयेनाह -

स्थिरत्वादिति ।

स्वतो नित्यत्वेऽपि कारणान्नाशसम्भवादुत्पत्तिरपि सम्भावितेति कुतश्चिरन्तनत्वम् ? इत्याशङ्क्याह -

न कारणादिति ।