श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥
सर्वकरणाविषयत्वात् न व्यज्यत इति अव्यक्तः अयम् आत्मा । अत एव अचिन्त्यः अयम् । यद्धि इन्द्रियगोचरः तत् चिन्ताविषयत्वमापद्यते । अयं त्वात्मा अनिन्द्रियगोचरत्वात् अचिन्त्यः । अत एव अविकार्यः, यथा क्षीरं दध्यातञ्चनादिना विकारि न तथा अयमात्मा । निरवयवत्वाच्च अविक्रियः । न हि निरवयवं किञ्चित् विक्रियात्मकं दृष्टम् । अविक्रियत्वात् अविकार्यः अयम् आत्मा उच्यते । तस्मात् एवं यथोक्तप्रकारेण एनम् आत्मानं विदित्वा

आत्मनो नित्यत्वादिलक्षणस्य तथैव प्रथा किमिति न भवति ? तत्राह -

अव्यक्त इति ।

मा तर्हि प्रत्यक्षत्वं भूत् , अनुमेयत्वं तु तस्य किं न स्यात् ? इत्याशङ्क्याह -

अत एवेति ।

तदेव प्रपञ्चयति -

यद्धीति ।

अतीन्द्रियत्वेऽपि सामान्यतो दृष्टविषयत्वं भविष्यतीत्याशङ्क्य कूटस्थेन आत्मना व्याप्तलिङ्गाभावात् , मैवमित्याह -

अविकार्य इति ।

अविकार्यत्वे व्यतिरेकदृष्टान्तमाह -

यथेति ।

किञ्च आत्मा न विक्रियते, निरवयवद्रव्यत्वात् , घटादिवत् - इति व्यतिरेक्यनुमानमाह -

निरवयवत्वाच्चेति ।

निरवयवत्वेऽपि विक्रियावत्त्वे का क्षतिः ? इत्याशङ्क्याह -

नहीति ।

सावयवस्यैव विक्रियावत्त्वदर्शनात् विक्रियावत्त्वे निरवयवत्वानुपपत्तिरित्यर्थः ।

यद्धि सावयवं सक्रियं क्षीरादि, तत् दध्यादिना विकारमापद्यते । न च आत्मनः श्रुतिप्रमितनिरवयवत्वस्य सावयवत्वम् । अतोऽविक्रियत्वान्नायं विकार्यो भवितुमलमिति फलितमाह -

अविक्रियत्वादिति ।

आत्मयाथात्म्योपदेशम् ‘अशोच्यानन्वशोचस्त्वम्’ (भ. गी. २-११) इत्युपक्रम्य व्याख्यातमुपसंहरति -

तस्मादिति ।

अव्यक्तत्वाचिन्त्यत्वाविकार्यत्वनित्यत्वसर्वगतत्वादिरूपो यस्मात् आत्मा निर्धारितः, तस्मात् तथैव ज्ञातुमुचितः, तज्ज्ञानस्य फलवत्त्वादित्यर्थः ।