आत्मनो नित्यत्वादिलक्षणस्य तथैव प्रथा किमिति न भवति ? तत्राह -
अव्यक्त इति ।
मा तर्हि प्रत्यक्षत्वं भूत् , अनुमेयत्वं तु तस्य किं न स्यात् ? इत्याशङ्क्याह -
अत एवेति ।
तदेव प्रपञ्चयति -
यद्धीति ।
अतीन्द्रियत्वेऽपि सामान्यतो दृष्टविषयत्वं भविष्यतीत्याशङ्क्य कूटस्थेन आत्मना व्याप्तलिङ्गाभावात् , मैवमित्याह -
अविकार्य इति ।
अविकार्यत्वे व्यतिरेकदृष्टान्तमाह -
यथेति ।
किञ्च आत्मा न विक्रियते, निरवयवद्रव्यत्वात् , घटादिवत् - इति व्यतिरेक्यनुमानमाह -
निरवयवत्वाच्चेति ।
निरवयवत्वेऽपि विक्रियावत्त्वे का क्षतिः ? इत्याशङ्क्याह -
नहीति ।
सावयवस्यैव विक्रियावत्त्वदर्शनात् विक्रियावत्त्वे निरवयवत्वानुपपत्तिरित्यर्थः ।
यद्धि सावयवं सक्रियं क्षीरादि, तत् दध्यादिना विकारमापद्यते । न च आत्मनः श्रुतिप्रमितनिरवयवत्वस्य सावयवत्वम् । अतोऽविक्रियत्वान्नायं विकार्यो भवितुमलमिति फलितमाह -
अविक्रियत्वादिति ।
आत्मयाथात्म्योपदेशम् ‘अशोच्यानन्वशोचस्त्वम्’ (भ. गी. २-११) इत्युपक्रम्य व्याख्यातमुपसंहरति -
तस्मादिति ।
अव्यक्तत्वाचिन्त्यत्वाविकार्यत्वनित्यत्वसर्वगतत्वादिरूपो यस्मात् आत्मा निर्धारितः, तस्मात् तथैव ज्ञातुमुचितः, तज्ज्ञानस्य फलवत्त्वादित्यर्थः ।