श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद चैव कश्चित् ॥ २९ ॥
आश्चर्यवत् आश्चर्यम् अदृष्टपूर्वम् अद्भुतम् अकस्माद्दृश्यमानं तेन तुल्यं आश्चर्यवत् आश्चर्यमिति एनम् आत्मानं पश्यति कश्चित् । आश्चर्यवत् एनं वदति तथैव च अन्यः । आश्चर्यवच्च एनमन्यः शृणोति । श्रुत्वा दृष्ट्वा उक्त्वापि एनमात्मानं वेद न चैव कश्चित् । अथवा योऽयमात्मानं पश्यति स आश्चर्यतुल्यः, यो वदति यश्च शृणोति सः अनेकसहस्रेषु कश्चिदेव भवति । अतो दुर्बोध आत्मा इत्यभिप्रायः ॥ २९ ॥

‘आश्चर्यवत्’ (भ. गी. २-२९) इति आद्येन पादेन आत्मविषयदर्शनस्य दुर्लभत्वं दर्शयता द्रष्टुर्दौर्लभ्यमुच्यते । द्वितीयेन च तद्विषयवदनस्य दुर्लभत्वोक्तेः तदुपदेष्टुस्तथात्वं कथ्यते । तृतीयेन तदीयश्रवणस्य दुर्लभत्वद्वारा श्रोतुर्विरलता विवक्षिता । श्रवणदर्शनोक्तीनां भावेऽपि तद्विषयसाक्षात्कारस्य अत्यन्तायासलभ्यत्वं चतुर्थेनाभिप्रेतम् इति विभागः । आत्मगोचरदर्शनादिदुर्लभत्वद्वारा दुर्बोधत्वम् आत्मनः साधयति -

आश्चर्यवदिति ।

संप्रत्यात्मनि द्रष्टुर्वक्तुः श्रोतुः साक्षात्कर्तुश्च दुर्लभत्वाभिधानेन तदीयं दुर्बोधत्वं कथयति -

अथवेति ।

व्याख्यानद्वयेऽपि फलितमाह -

अत इति

॥ २९ ॥