श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
देही नित्यमवध्योऽयं देहे सर्वस्य भारत
तस्मात्सर्वाणि भूतानि त्वं शोचितुमर्हसि ॥ ३० ॥
अथेदानीं प्रकरणार्थमुपसंहरन्ब्रूते —

श्लोकान्तरमुत्थापयति -

अथेति ।

आत्मनो दुर्ज्ञानत्वप्रदर्शनानन्तरमिति यावत् । वस्तुवृत्तापेक्षया शोकमोहयोरकर्तव्यत्वं प्रकरणार्थः ।