श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
स्वधर्ममपि चावेक्ष्य विकम्पितुमर्हसि
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्त्रियस्य विद्यते ॥ ३१ ॥
इह परमार्थतत्त्वापेक्षायां शोको मोहो वा न सम्भवतीत्युक्तम् । न केवलं परमार्थतत्त्वापेक्षायामेव । किं तु —

श्लोकान्तरमवतारयन् वृत्तं कीर्तयति -

इहेति ।

पूर्वश्लोकः सप्तम्यर्थः । यत् पारमार्थिकं तत्त्वं तदपेक्षायामेव केवलं शोकमोहयोरसम्भवो न भवति, किन्तु ‘स्वधर्ममपि चावेक्ष्य’ (भ. गी. २-३१) इति सम्बन्धः स्वकीयं क्षात्रधर्ममनुसन्धाय ततश्चलनं परिहर्तव्यमित्यर्थः ।