श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इह परमार्थतत्त्वापेक्षायां शोको मोहो वा सम्भवतीत्युक्तम् केवलं परमार्थतत्त्वापेक्षायामेवकिं तु
इह परमार्थतत्त्वापेक्षायां शोको मोहो वा सम्भवतीत्युक्तम् केवलं परमार्थतत्त्वापेक्षायामेवकिं तु

श्लोकान्तरमवतारयन् वृत्तं कीर्तयति -

इहेति ।

पूर्वश्लोकः सप्तम्यर्थः । यत् पारमार्थिकं तत्त्वं तदपेक्षायामेव केवलं शोकमोहयोरसम्भवो न भवति, किन्तु ‘स्वधर्ममपि चावेक्ष्य’ (भ. गी. २-३१) इति सम्बन्धः स्वकीयं क्षात्रधर्ममनुसन्धाय ततश्चलनं परिहर्तव्यमित्यर्थः ।