तथापि युद्धे प्रवृत्तानामैहिकामुष्मिकस्थायिसुखाभावादुपरतिरेव ततो युक्ता प्रतिभातीत्याशङ्क्याह -
यदृच्छयेति ।
चिरेण चिरतरेण कालेन च यागाद्यनुष्ठायिनः स्वर्गादिभाजो भवन्ति । युध्यमानास्तु क्षत्रिया बहिर्मुखताविहीनाः सहसैव स्वर्गादिसुखभोक्तारः । तेन तव कर्तव्यमेव युद्धमिति व्याख्यानेन स्फुटयति -
यदृच्छयेत्यादिना ।
इहामुत्र च भाविसुखवतामेव क्षत्रियाणां स्वधर्मभूतयुद्धसिद्धेस्तादर्थ्येनोत्थानं शोकमोहौहित्वा कर्तव्यमित्यर्थः ॥ ३२ ॥