श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥
अकीर्तिं चापि युद्धे भूतानि कथयिष्यन्ति ते तव अव्ययां दीर्घकालाम्धर्मात्मा शूर इत्येवमादिभिः गुणैः सम्भावितस्य अकीर्तिः मरणात् अतिरिच्यते, सम्भावितस्य

युद्धे स्वमरणसन्देहात् तत्परिहारार्थमकीर्तिरपि सोढव्या, आत्मसंरक्षणस्य श्रेयस्करत्वात् इत्याशङ्क्याह -

धर्मात्मेति ।

मान्यानामकीर्तिर्भवति  मरणादपि दुःसहेति तात्पर्यार्थमाह -

सम्भावितस्येति

॥ ३४ ॥