श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥
न केवलं स्वधर्मकीर्तिपरित्यागः —

युद्धाकरणे क्षत्रियस्य प्रत्यवायमामुष्मिकमापाद्य, शिष्टगर्हालक्षणं दीर्घकालभाविनमैहिकमपि प्रत्यवायं प्रतिलम्भयति -

न केवलमिति ।