श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥
तत्र युद्धं स्वधर्मं इत्येवं युध्यमानस्योपदेशमिमं शृणु —

पापभीरुतया युद्धाय निश्चयं कृत्वा नोत्थातुं शक्नोमीत्याशङ्क्याह -

तत्रेति ।

युद्धस्य स्वधर्मतया कर्तव्यत्वे सतीति यावत् ।