श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो विद्यते
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥
किञ्च अन्यत् —

ननु - कर्मानुष्ठानस्य अनैकांन्तिकफलत्वेन अकिञ्चित्करत्वात् अनेकानर्थकलुषितत्वेन दोषवत्त्वाच्च योगबुद्धिरपि न श्रद्धेयेति, तत्राह -

किञ्चेति ।

अन्यच्च किञ्चिदुच्यते कर्मानुष्ठानस्यावश्यकत्वे कारणमिति यावत् ।