श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥
व्यवसायात्मिका निश्चयस्वभावा एका एव बुद्धिः इतरविपरीतबुद्धिशाखाभेदस्य बाधिका, सम्यक्प्रमाणजनितत्वात् , इह श्रेयोमार्गे हे कुरुनन्दन । याः पुनः इतरा विपरीतबुद्धयः, यासां शाखाभेदप्रचारवशात् अनन्तः अपारः अनुपरतः संसारो नित्यप्रततो विस्तीर्णो भवति, प्रमाणजनितविवेकबुद्धिनिमित्तवशाच्च उपरतास्वनन्तभेदबुद्धिषु संसारोऽप्युपरमते ता बुद्धयः बहुशाखाः बह्वयः शाखाः यासां ताः बहुशाखाः, बहुभेदा इत्येतत् । प्रतिशाखाभेदेन हि अनन्ताश्च बुद्धयः । केषाम् ? अव्यवसायिनां प्रमाणजनितविवेकबुद्धिरहितानामित्यर्थः ॥ ४१ ॥

सैवैका प्रमाणभूता बुद्धिरित्याह -

व्यवसायात्मिकेति ।

बुद्ध्यन्तराणि अविवेकमूलानि, अप्रमाणानि, इत्याह -

बहुशाखा हीति ।

व्यवसायात्मिकाया बुद्धेः श्रेयोमार्गे प्रवृत्ताया विवक्षित फलमाह -

इतरेति ।

प्रकृतबुद्धिद्वयापेक्षया इतराः विपरीताश्च अप्रमाणजनिताः स्वकपोलकल्पिता या बुद्धयः, तासां शाखाभेदो यः संसारहेतुः, तस्य बाधिकेति यावत् ।

तत्र हेतुः -

सम्यगिति ।

निर्दोषवेदवाक्यसमुत्थत्वात् उक्तमुपायोपेयभूतं बुद्धिद्वयं साक्षात् पारम्पर्याभ्यां संसारहेतुबाधकमित्यर्थः ।

उत्तरार्धं व्याचष्टे  -

याः पुनरिति ।

प्रकृतबुद्धिद्वयापेक्षया अर्थान्तरत्वम् - इतरत्वम् ।

तासामनर्थहेतुत्वं दर्शयति -

यासामिति ।

अप्रामाणिकबुद्धीनां प्रसक्तानुप्रसक्त्या जायमानानामतीव बुद्धिपरिणामविशेषाः शाखाभेदाः, तेषां प्रचारः - प्रवृत्तिः, तद्वशादित्येतत् । अनन्तत्वं सम्यग्ज्ञानमन्तरेण निवृत्तिविरहितत्वम् । अपारत्वं - कार्यस्यैव सतो वस्तुभूतकारणविरहितत्वम् ।

अनुपरतत्वं स्फोरयति -

नित्येति ।

कथं तर्हि तन्निवृत्त्या पुरुषार्थपरिसमाप्तिः ? तत्राह -

प्रमाणेति ।

अन्वयव्यतिरेकाख्येन अनुमानेन आगमेन च पदार्थपरिशोधनपरिनिष्पन्ना विवेकात्मिका या बुद्धिः, तां निमीत्तीकृत्य समुत्पन्नसम्यग्बोधानुरोधात् प्रकृता विपरीतबुद्धयो व्यावर्तन्ते । तास्वसङ्ख्यातासु व्यावृत्तासु सतीषु निरालम्बनतया संसारोऽपि स्थातुमशक्नुवन् उपरतो भवतीत्यर्थः ।

याः पुनः इत्युपक्रान्तास्तत्त्वज्ञानापनोद्याः संसारास्पदीभूताः विपरीतबुद्धीरनुक्रामति -

ता बुद्धय इति ।

बुद्धीनां वृक्षस्येव कुतो बहुशाखित्वम् ? तत्राह -

बहुभेदा इत्येतदिति ।

एकैकां बुद्धिम्प्रति शाखाभेदोऽवान्तरविशेषः, तेन बुद्धीनामसङ्ख्यात्वं प्रख्यातमित्याह -

प्रतिशाखेति ।

बुद्धीनामानन्त्यप्रसिद्धिप्रद्योतनार्थो हिशब्दः ।

सम्यग्ज्ञानवतां यथोक्तबुद्धिभेदभाक्त्वमप्रसिद्धमित्याशङ्क्य प्रत्याह -

केषामित्यादिना

॥ ४१ ॥