श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥
येयं साङ्‍ख्ये बुद्धिरुक्ता योगे च, वक्ष्यमाणलक्षणा सा —

ननु - बुद्धिद्वयातिरिक्तानि बुद्ध्यन्तराण्यपि काणादादिशास्त्रप्रसिद्धानि विद्यन्ते । तथा च कथं बुद्धिद्वयमेव भगवतोपदिष्टमिति, तत्राह -

येयमिति ।