श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ४२ ॥
याम् इमां वक्ष्यमाणां पुष्पितां पुष्पित इव वृक्षः शोभमानां श्रूयमाणरमणीयां वाचं वाक्यलक्षणां प्रवदन्तिके ? अविपश्चितः अमेधसः अविवेकिन इत्यर्थःवेदवादरताः बह्वर्थवादफलसाधनप्रकाशकेषु वेदवाक्येषु रताः हे पार्थ, अन्यत् स्वर्गपश्वादिफलसाधनेभ्यः कर्मभ्यः अस्ति इति एवं वादिनः वदनशीलाः ॥ ४२ ॥

ते यामिमां पुष्पितां वाचं प्रवदन्ति तया अपहृतचेतसां कामिनां कामवशात् निश्चयात्मिका बुद्धिर्न प्रायः स्थिरा भवतीत्याह -

ते । यामिति ।

‘इमाम्’ इत्यव्ययनविध्युपात्तत्वेन प्रसिद्धत्वं कर्मकाण्डरूपाया वाचो विवक्ष्यते । वक्ष्यमाणत्वं ‘क्रियाविशेषबहुलाम्’ (भ. गी. २-४३) इत्यादौ द्रष्टव्यम् । किंशुको हि पुष्पशाली शोभमानोऽनुभूयते, न पुरुषभोग्यफलभागी लक्ष्यते ।

तथा, इयमपि कर्मकाण्डात्मिका श्रूयमाणदशायां रमणीया वागुपलभ्यते, साध्यसाधनसम्बन्धप्रतिभानात् । न त्वेषा निरतिशयफलभागिनी भवति, कर्मानुष्ठानफलस्य अनित्यत्वात् , इति मत्वाह -

पुष्पितामिति ।

वाक्यत्वेन लक्ष्यतेऽर्थवत्त्वप्रतिभानात् । वस्तुतस्तु न वाक्यम् , अर्थाभासत्वात् , इत्याह -

वाक्यलक्षणामिति ।

प्रवक्तॄणां वेदवाक्यतात्पर्यपरिज्ञानाभावं सूचयति -

अविपश्चित इति ।

वेदवादाः - वेदवाक्यानि, तानि च बहूनामर्थवादानां फलानां साधनानां च विधिशेषाणां प्रकाशकानि, तेषु रतिः - आसक्तिः, तन्निष्ठत्वं - तद्वत्त्वमपि तेषां विशेषणमित्याह -

वेदवादेति ।

कर्मकाण्डनिष्ठत्वफलं कथयति -

नान्यदिति ।

ईश्वरो  वा मोक्षो वा नास्तीत्येवं वदन्तो नास्तिकाः सन्तः सम्यग्ज्ञानवन्तो न भवन्तीत्यर्थः ॥ ४२ ॥