श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥
कामात्मानः कामस्वभावाः, कामपरा इत्यर्थः । स्वर्गपराः स्वर्गः परः पुरुषार्थः येषां ते स्वर्गपराः स्वर्गप्रधानाः । जन्मकर्मफलप्रदां कर्मणः फलं कर्मफलं जन्मैव कर्मफलं जन्मकर्मफलं तत् प्रददातीति जन्मकर्मफलप्रदा, तां वाचम् । प्रवदन्ति इत्यनुषज्यते । क्रियाविशेषबहुलां क्रियाणां विशेषाः क्रियाविशेषाः ते बहुला यस्यां वाचि तां स्वर्गपशुपुत्राद्यर्थाः यया वाचा बाहुल्येन प्रकाश्यन्ते । भोगैश्वर्यगतिं प्रति भोगश्च ऐश्वर्यं च भोगैश्वर्ये, तयोर्गतिः प्राप्तिः भोगैश्वर्यगतिः, तां प्रति साधनभूताः ये क्रियाविशेषाः तद्बहुलां तां वाचं प्रवदन्तः मूढाः संसारे परिवर्तन्ते इत्यभिप्रायः ॥ ४३ ॥

तेषां संसारपरिवर्तनपरिदर्शनार्थं प्रस्तुतां वाचमेव विशिनष्टि -

जन्मेति ।

ननु - पुंसां कामस्वभावत्वमयुक्तम् , चेतनस्येच्छावतस्तदात्मत्वानुपपत्तेः, इति तत्राह -

कामपरा इति ।

तत्परत्वं - तत्तत्फलार्थित्वेन तत्तदुपायेषु कर्मस्वेव प्रवृत्ततया कर्मसंन्यासपूर्वकात् ज्ञानाद्बहिर्मुखत्वम् ।

ननु - कर्मनिष्ठानामपि परमपुरुषार्थापेक्षया मोक्षोपाये ज्ञाने भवत्याभिमुख्यमिति, नेत्याह -

स्वर्गेति ।

तत्परत्वं - तस्मिन्नेवासक्ततया तदतिरिक्तपुरुषार्थराहित्यनिश्चयवत्त्वम् । उच्चावचमध्यमदेहप्रभेदग्रहणं जन्म । वाचो यथोक्तफलप्रदत्वं अप्रामाणिकम् इत्याशङ्क्य, अऩुष्ठानद्वारा तदुपपत्तिरित्याह -

क्रियेति ।

क्रियाणां - अनुष्ठानानां विशेषाः - देशकालाधिकारिप्रयुक्तः सप्ताहानेकाहलक्षणाः, ते खल्वस्यां वाचि प्राचुर्येण प्रतिभान्तीत्यर्थः ।

कथं यथोक्तायां वाचि क्रियाविशेषाणां बाहुल्येन अवस्थानम् ? इत्याशङ्क्य, प्रकाश्यत्वेनेत्येतद्विशदयति -

स्वर्गेति ।

तथापि तेषां मोक्षोपायत्वोपपत्तेः, तन्निष्ठानां मोक्षाभिमुख्यं भविष्यति, नेत्याह -

भोगेति ।

यथोक्तां वाचमभिवदतां पर्यवसानं दर्शयति -

तद्बहुलामिति

॥ ४३ ॥