तर्हि वेदार्थतया कामात्मता प्रशस्तेत्याशङ्क्याह -
निस्त्रैगुण्य इति ।
भवेति पदं निर्द्वन्द्वादिविशेषणेष्वपि प्रत्येकं सम्बध्यते ।
त्रयाणां - सत्त्वादीनां, गुणानां - पुण्यपापव्यामिश्रकर्मतत्फलसम्बन्धलक्षणः समाहारः - त्रैगुण्यम् , इत्यङ्गीकृत्य व्याचष्टे -
संसार इति ।
वेदशब्देनात्र कर्मकाण्डमेव गृह्यते । तदभ्यासवतां तदर्थानुष्ठानद्वारा संसाराध्रौव्यान्न विवेकावसरोऽस्तीत्यर्थः ।
तर्हि संसारपरिवर्जनार्थं विवेकसिद्धये किं कर्तव्यम् ? इत्याशङ्क्याह -
त्वं त्विति ।
कथं निस्त्रैगुण्यो भवेति गुणत्रयराहित्यं विधीयते ? नित्यसत्त्वस्थो भवेति वाक्यशेषविरोधात् , इत्याशङ्क्याह -
निष्काम इति ।
सप्रतिपक्षत्वं - परस्परविरोधित्वम् । पदार्थौ - शीतोष्णादिलक्षणौ । निष्कामत्वे द्वन्द्वान्निर्गतत्वं - शीतोष्णादिसहिष्णुत्वं हेतुमुक्त्वा, तत्रापि हेत्वपेक्षायां सदा सत्त्वगुणाश्रितत्वं हेतुमाह -
नित्येति ।
योगक्षेमव्यापृतचेतसो रजस्तमोभ्यामसंस्पृष्टे सत्त्वमात्रे समाश्रितत्वमशक्यम् इत्याशङ्क्याह -
तथेति ।
योगक्षेमयोर्जीवनहेतुतया पुरुषार्थसाधनत्वात् निर्योगक्षेमो भवेति कुतो विधिः ? इत्याशङ्क्याह -
योगेति ।
योगक्षेमप्रधानत्वं सर्वस्य स्वारसिकमिति ततो निर्गमनमशक्यम् इत्याशङ्क्याह -
आत्मवानिति ।
अप्रमादः - मनसो विषयपारवश्यशून्यत्वम् । अथ यथोक्तोपदेशस्य मुमुक्षुविषयत्वात् अर्जुनस्य मुमुक्षुत्वमिह विवक्षितमिति, नेत्याह -
एष इति
॥ ४५ ॥