श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यावानर्थ उदपाने सर्वतःसम्प्लुतोदके
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ॥
यथा लोके कूपतडागाद्यनेकस्मिन् उदपाने परिच्छिन्नोदके यावान् यावत्परिमाणः स्नानपानादिः अर्थः फलं प्रयोजनं स सर्वः अर्थः सर्वतः सम्प्लुतोदकेऽपि यः अर्थः तावानेव सम्पद्यते, तत्र अन्तर्भवतीत्यर्थः । एवं तावान् तावत्परिमाण एव सम्पद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यः अर्थः यत्कर्मफलं सः अर्थः ब्राह्मणस्य संन्यासिनः परमार्थतत्त्वं विजानतः यः अर्थः यत् विज्ञानफलं सर्वतःसम्प्लुतोदकस्थानीयं तस्मिन् तावानेव सम्पद्यते तत्रैवान्तर्भवतीत्यर्थः । ‘यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत् किञ्चित् प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद’ (छा. उ. ४ । १ । ४) इति श्रुतेः । ‘सर्वं कर्माखिलम्’ (भ. गी. ४ । ३३) इति च वक्ष्यति । तस्मात् प्राक् ज्ञाननिष्ठाधिकारप्राप्तेः कर्मण्यधिकृतेन कूपतडागाद्यर्थस्थानीयमपि कर्म कर्तव्यम् ॥ ४६ ॥

तथा च अपरिच्छिन्नात्मानन्दप्राप्तिपर्यवसायिनो योगमार्गस्य नास्ति वैफल्यमित्याह -

यावानिति ।

उक्तमर्थमक्षरयोजनया प्रकटयति -

यथेति ।

उदकं पीयतेऽस्मिन्निति व्युत्पत्या कूपादिपरिच्छिन्नोदकविषयत्वमुदपानशब्दस्य दर्शयति -

कूपेति ।

कूपादिगतस्याभिधेयस्य समुद्रेऽन्तर्भावासम्भवात् कथमिदम् ? इत्याशङ्क्य, अर्थशब्दस्य प्रयोजनविषयत्वं व्युत्पादयति -

फलमिति ।

यत् फल्गुत्वेन लीयते तत् फलमित्युच्यते, तत् कथं तडागादिकृतं स्नानपानादि तथा ? इत्याशङ्क्य, तस्य अल्पीयसो नाशोपपत्तेः, इत्याह -

प्रयोजनमिति ।

तडागादिप्रयुक्तप्रयोजनस्य समुद्रनिमित्तप्रयोजनमात्रत्वम् अयुक्तम् , अन्यस्य अन्यात्मत्वानुपपत्तेः, इत्याशङ्क्याह -

तत्रेति ।

घटाकाशादेरिव महाकाशे परिच्छिन्नोदककार्यस्य अपरिच्छिन्नोदककार्यान्तर्भावः सम्भवति, तत्प्राप्तावितरापेक्षाभावादित्यर्थः ।

पूर्वार्धं दृष्टान्तभूतमेवं व्याख्याय, दार्ष्टान्तिकमुत्तरार्धं व्याकरोति -

एवमित्यादिना ।

‘कर्मसु योऽर्थः’ इत्युक्तं व्यनक्ति -

यत् कर्मफलमिति ।

सोऽर्थो विजानतो ब्राह्मणस्य योऽर्थः, तावानेव सम्पद्यत इति सम्बन्धः ।

तदेव स्पष्टयति -

विज्ञानेति ।

तस्मिनन्नन्तर्भवतीति शेषः ।

सर्वं कर्मफलं ज्ञानफलेऽन्तर्भवतीत्यत्र प्रमाणमाह -

सर्वमिति ।

यत् किमपि प्रजाः साधु कर्म कुर्वन्ति, तत् सर्वं स पुरुषोऽभिसमेति - प्राप्नोति, यः पुरुषः, तद्वेद - विजानाति, यद्वस्तु सः -  रैक्को वेद तद्वेद्यमिति श्रुतेरर्थः ।

कर्मफलस्य सगुणज्ञानफलेऽन्तर्भावः संवर्गविद्यायां श्रूयते, कथमेतावता निर्गुणज्ञानफले कर्मफलान्तर्भावः सम्भवति ? इत्याशङ्क्याह -

सर्वमिति ।

तर्हि ज्ञाननिष्ठैव कर्तव्या, तावतैव कर्मफलस्य लब्धतया कर्मानुष्ठानानपेक्षणात् , इत्याशङ्क्याह -

तस्मादिति ।

योगमर्गस्य निष्फलत्वाभावस्तच्छब्दार्थः ॥ ४६ ॥