श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यावानर्थ उदपाने सर्वतःसम्प्लुतोदके
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ॥
यथा लोके कूपतडागाद्यनेकस्मिन् उदपाने परिच्छिन्नोदके यावान् यावत्परिमाणः स्नानपानादिः अर्थः फलं प्रयोजनं सर्वः अर्थः सर्वतः सम्प्लुतोदकेऽपि यः अर्थः तावानेव सम्पद्यते, तत्र अन्तर्भवतीत्यर्थःएवं तावान् तावत्परिमाण एव सम्पद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यः अर्थः यत्कर्मफलं सः अर्थः ब्राह्मणस्य संन्यासिनः परमार्थतत्त्वं विजानतः यः अर्थः यत् विज्ञानफलं सर्वतःसम्प्लुतोदकस्थानीयं तस्मिन् तावानेव सम्पद्यते तत्रैवान्तर्भवतीत्यर्थःयथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत् किञ्चित् प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद’ (छा. उ. ४ । १ । ४) इति श्रुतेःसर्वं कर्माखिलम्’ (भ. गी. ४ । ३३) इति वक्ष्यतितस्मात् प्राक् ज्ञाननिष्ठाधिकारप्राप्तेः कर्मण्यधिकृतेन कूपतडागाद्यर्थस्थानीयमपि कर्म कर्तव्यम् ॥ ४६ ॥

तथा च अपरिच्छिन्नात्मानन्दप्राप्तिपर्यवसायिनो योगमार्गस्य नास्ति वैफल्यमित्याह -

यावानिति ।

उक्तमर्थमक्षरयोजनया प्रकटयति -

यथेति ।

उदकं पीयतेऽस्मिन्निति व्युत्पत्या कूपादिपरिच्छिन्नोदकविषयत्वमुदपानशब्दस्य दर्शयति -

कूपेति ।

कूपादिगतस्याभिधेयस्य समुद्रेऽन्तर्भावासम्भवात् कथमिदम् ? इत्याशङ्क्य, अर्थशब्दस्य प्रयोजनविषयत्वं व्युत्पादयति -

फलमिति ।

यत् फल्गुत्वेन लीयते तत् फलमित्युच्यते, तत् कथं तडागादिकृतं स्नानपानादि तथा ? इत्याशङ्क्य, तस्य अल्पीयसो नाशोपपत्तेः, इत्याह -

प्रयोजनमिति ।

तडागादिप्रयुक्तप्रयोजनस्य समुद्रनिमित्तप्रयोजनमात्रत्वम् अयुक्तम् , अन्यस्य अन्यात्मत्वानुपपत्तेः, इत्याशङ्क्याह -

तत्रेति ।

घटाकाशादेरिव महाकाशे परिच्छिन्नोदककार्यस्य अपरिच्छिन्नोदककार्यान्तर्भावः सम्भवति, तत्प्राप्तावितरापेक्षाभावादित्यर्थः ।

पूर्वार्धं दृष्टान्तभूतमेवं व्याख्याय, दार्ष्टान्तिकमुत्तरार्धं व्याकरोति -

एवमित्यादिना ।

‘कर्मसु योऽर्थः’ इत्युक्तं व्यनक्ति -

यत् कर्मफलमिति ।

सोऽर्थो विजानतो ब्राह्मणस्य योऽर्थः, तावानेव सम्पद्यत इति सम्बन्धः ।

तदेव स्पष्टयति -

विज्ञानेति ।

तस्मिनन्नन्तर्भवतीति शेषः ।

सर्वं कर्मफलं ज्ञानफलेऽन्तर्भवतीत्यत्र प्रमाणमाह -

सर्वमिति ।

यत् किमपि प्रजाः साधु कर्म कुर्वन्ति, तत् सर्वं स पुरुषोऽभिसमेति - प्राप्नोति, यः पुरुषः, तद्वेद - विजानाति, यद्वस्तु सः -  रैक्को वेद तद्वेद्यमिति श्रुतेरर्थः ।

कर्मफलस्य सगुणज्ञानफलेऽन्तर्भावः संवर्गविद्यायां श्रूयते, कथमेतावता निर्गुणज्ञानफले कर्मफलान्तर्भावः सम्भवति ? इत्याशङ्क्याह -

सर्वमिति ।

तर्हि ज्ञाननिष्ठैव कर्तव्या, तावतैव कर्मफलस्य लब्धतया कर्मानुष्ठानानपेक्षणात् , इत्याशङ्क्याह -

तस्मादिति ।

योगमर्गस्य निष्फलत्वाभावस्तच्छब्दार्थः ॥ ४६ ॥