श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ४७ ॥
कर्मण्येव अधिकारः न ज्ञाननिष्ठायां ते तव । तत्र च कर्म कुर्वतः मा फलेषु अधिकारः अस्तु, कर्मफलतृष्णा मा भूत् कदाचन कस्याञ्चिदप्यवस्थायामित्यर्थः । यदा कर्मफले तृष्णा ते स्यात् तदा कर्मफलप्राप्तेः हेतुः स्याः, एवं मा कर्मफलहेतुः भूः । यदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि प्रवर्तते तदा कर्मफलस्यैव जन्मनो हेतुर्भवेत् । यदि कर्मफलं नेष्यते, किं कर्मणा दुःखरूपेण ? इति मा ते तव सङ्गः अस्तु अकर्मणि अकरणे प्रीतिर्मा भूत् ॥ ४७ ॥

तर्हि तत्फलाभिलाषोऽपि स्यात् इति, नेत्याह -

माफलेष्विति ।

पूर्वोक्तमेवार्थं प्रपञ्चयति -

मा कर्मेति ।

फलाभिसन्ध्यसम्भवे कर्माकरणमेव श्रद्दधामि, इत्याशङ्क्याह -

मा ते इति ।

ज्ञानानधिकारिणोऽपि कर्मत्यागप्रसक्तिं निवारयति -

कर्मण्येवेति ।

कर्मण्येवेति, एवकारार्थमाह -

न ज्ञानेति ।

नहि तत्र अब्राह्मणस्य अपरिपक्वकषायस्य मुख्योऽधिकारः सिध्यतीत्यर्थः ।

फलैस्तर्हि सम्बन्धो दुर्वारः स्यात् , इत्याशङ्क्याह -

तत्रेति ।

कर्मण्येवाधिकरे सतीति सप्तम्यर्थः ।

फलेष्वधिकाराभावं स्फोरयति -

कर्मेति ।

कर्मानुष्ठानात् प्रागूर्ध्वं तत्काले चेत्येतत् कदाचनेति विवक्षितमित्याह -

कस्याञ्चिदिति ।

फलाभिसंधाने दोषमाह -

यदेति ।

एवं कर्मफलतृष्णाद्वारेणेत्यर्थः ।

कर्मफलहेतुत्वं विवृणोति -

यदा हीति ।

तर्हि विफलं क्लेशात्मकं कर्म न कर्तव्यम् , इति शङ्कामनुभाष्य दूषयति -

यदीत्यादिना ।

अकर्मणि ते सङ्गो मा भूत् , इत्युक्तमेव स्पष्टयति -

अकरण इति

॥ ४७ ॥