श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥
कर्मजं फलं त्यक्त्वा इति व्यवहितेन सम्बन्धःइष्टानिष्टदेहप्राप्तिः कर्मजं फलं कर्मभ्यो जातं बुद्धियुक्ताः समत्वबुद्धियुक्ताः सन्तः हि यस्मात् फलं त्यक्त्वा परित्यज्य मनीषिणः ज्ञानिनो भूत्वा, जन्मबन्धविनिर्मुक्ताः जन्मैव बन्धः जन्मबन्धः तेन विनिर्मुक्ताः जीवन्त एव जन्मबन्धात् विनिर्मुक्ताः सन्तः, पदं परमं विष्णोः मोक्षाख्यं गच्छन्ति अनामयं सर्वोपद्रवरहितमित्यर्थःअथवा बुद्धियोगाद्धनञ्जय’ (भ. गी. २ । ४९) इत्यारभ्य परमार्थदर्शनलक्षणैव सर्वतःसम्प्लुतोदकस्थानीया कर्मयोगजसत्त्वशुद्धिजनिता बुद्धिर्दर्शिता, साक्षात्सुकृतदुष्कृतप्रहाणादिहेतुत्वश्रवणात् ॥ ५१ ॥

मनीषिणो हि ज्ञानातिशयवन्तो बुद्धियुक्ताः सन्तः स्वधर्माख्यं कर्मानुतिष्ठन्तः, ततो जातं फलं देहप्रभेदं हित्वा जन्मलक्षणाद्बन्धात् विनिर्मुक्ताः वैष्णवं पदं सर्वसंसारसंस्पर्शशून्यं प्राप्नुवन्तीति श्लोकोक्तमर्थं श्लोकयोजनया दर्शयति -

कर्मजमित्यादिना ।

इष्टो देहो देवादिलक्षणः, अनिष्टो देहः तिर्यगादिलक्षणः । तत्प्राप्तिरेव कर्मणो जातं फलम् । तत् यथोक्तबुद्धियुक्ता ज्ञानिनो भूत्वा तद्बलादेव परित्यज्य बन्धविनिर्मोकपूर्वकं जीवन्मुक्ताः सन्तो विदेहकैवल्यभाजो भवन्तीत्यर्थः ।

बुद्धियोगादित्यादौ बुद्धिशब्दस्य समत्वबुद्धिरर्थो व्याख्यातः, सम्प्रति परम्परां परिहृत्य सुकृतदुष्कृतप्रहाणहेतुत्वस्य समत्वबुद्धावसिद्धेः, बुद्धिशब्दस्य योग्यमर्थान्तरं कथयति -

अथवेति ।

अनवच्छिन्नवस्तुगोचरत्वेन अनवच्छिन्नत्वं तस्याः सूचयन् बुद्ध्यन्तराद्विशेषं दर्शयति -

सर्वत इति ।

असाधारणं निमित्तन्तस्या निर्दिशति - कर्मेति ।

यथोक्तबुद्धेर्बुद्धिशब्दार्थत्वे हेतुमाह -

साक्षादिति ।

जन्मबन्धविनिर्मोकादिः आदिशब्दार्थः । यस्मिन् कर्मणि क्रियमाणे परमार्थदर्शनलक्षणा बुद्धिरुद्देश्यतया युज्यते, तस्मात् कर्मणः, सकाशादितरत् कर्म तथाविधोद्देश्यभूतबुद्धिसम्बन्धविधुरमतिशयेन निष्कृष्यते । ततश्च परमार्थबुद्धिमुद्देश्यत्वेनाश्रित्य कर्म अनुष्ठातव्यम् , परिच्छिन्नफलान्तरमुद्दिश्य तदनुष्ठाने कार्पण्यप्रसङ्गात् । किञ्च - परमार्थबुद्धिमुद्देश्यमाश्रित्य कर्म अनुतिष्ठन् अन्तःकरणशुद्धिद्वारा परमार्थदर्शनसिद्धौ, जीवत्येव देहे सुकृतादि हित्वा मोक्षमधिगच्छति । तथाच - परमार्थदर्शनलक्षणयोगार्थं मनो धारयितव्यम् । योगशब्दितं हि  परमार्थदर्शनमुद्देश्यतया कर्मस्वनुतिष्ठतो नैपुण्यमिष्यते - यदि च परमार्थदर्शनमुद्दिश्य तद्युताः सन्तः समारभेरन् कर्माणि, तदा तदनुष्ठानजनितबुद्धिशुद्ध्या ज्ञानिनो भूत्वा कर्मजं फलं परित्यज्य, निर्मुक्तबन्धनाः मुक्तिभाजो भवन्ति - इत्येवमस्मिन् पक्षे श्लोकत्रयाक्षराणि व्याख्यातव्यानि ॥ ५१ ॥